पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१४४

एतत् पृष्ठम् परिष्कृतम् अस्ति

अ. ४.] श्वेताश्वतरोपनिषत्

घृतात् परं मण्डमिवातिसूक्ष्मं ज्ञात्वा शिवं सर्वभूतेषु गूढम् । विश्वस्यैकं परिवेष्टितारं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥१६॥ एष देवो विश्वकर्मा महात्मा सदा जनानां हृदये संनिविष्टः । हृदा मनीषा मनसाऽभिक्लुप्तो य एतद्विदुरमृतास्ते भवन्ति ॥१७॥ यदा तमस्तन्न दिवा न रात्रिर्न सन्न चासच्छिव एव केवलः । तदक्षरं तत् सवितुर्वरेण्यं प्रज्ञा च तस्मात् प्रसृता पुराणी ॥१८॥ घृतादिति । यथा घृतस्य सारांशः सूक्ष्मः क्षीरव्यापी, एवं सर्वत्र सूक्ष्मतया दुर्ज्ञानतया, व्याप्य वर्तमानत्वेऽप्यनवद्यतया मङ्गळभूतं भगवन्तं ज्ञात्वा मुक्तो भवतीत्यर्थः । एष देव इति । विश्व कर्म-क्रियत इति कर्म कार्यं यस्य स तथोक्तः । जगत्कर्तेत्यर्थः । इतरत् उक्तार्थम् । (१७) गायत्रीप्रतिपाद्यत्वमपि तस्यैवेत्याह यदा तम इति । यस्मिन् काले सदसच्छब्दितमूर्तामूर्तप्रपञ्चं दिवारात्रविभागश्चान्तरेण तमोमात्रमवस्थितम् , तस्मिन् काले, 'ब्रह्मादिषु प्रलीनेषु नष्टे स्थावरजङ्गमे । [ आभूतसंप्लवं प्राप्ते प्रलीने प्रकृतौ महान् ] एकस्तिष्ठति विश्वात्मा स तु नारायणः प्रभुः' इत्युक्तरीत्या ज्ञानसंकोचलक्षणाशुभमन्तरेण केवलं शुभतयाऽवस्थितम् । तदेव क्षरणशून्यं वस्तु ; सवितृमण्डलमध्यवर्ति; वरणीयं भजनीयञ्च तदेव । तस्मादेव हेतोः सृष्टिकाले प्रजानां संकुचितज्ञानस्य नित्यस्य प्रसरणमिति भावः । प्रज्ञा च तसादित्यनेन , धियो यो नः प्रचोदयात् । इत्यंशप्रतिपाद्यत्वमपि तस्यैवेत्युक्तं भवति । घृतात् परमिति । क्षीरदध्यादौ सूक्ष्मं सत् व्याप्तमेव मण्डं भूत्वा घृतं भवति । अतो घृतात् परमिति क्षीरादिव्यापनक्षमात् घृतपरिणामादप्युत्कृष्टा पूर्वावस्थोच्यते । (१६) अन्यदुक्तार्थमिति । तृतीये प्रयोदशमन्त्र इति शेषः । (१७) एवं बहुभिर्मन्त्रैः तज्ज्ञानस्यैवामृतत्वहेतुत्वमुपवर्ण्य संध्योपास्तिप्रभृतिसर्वकर्माराध्यत्वात् तस्य, तस्य प्रीतस्य शुभबुद्धि प्रेरकत्वं प्रागुक्तं युक्तमिति निगम्यते यदेति । यदा तम इत्यत्र नञः अभावात् न प्रलये तमोनिषेधः । अत इदं तमः प्रागुक्ता मायेति ज्ञायते । स्पष्टमिदं सुबाले । मूर्तामूर्तब्राह्मणे बृहदारण्यकगते सदिति तेजोवन्नरूपं मूर्त गृहीत्वा तदन्यस्य वायोरन्तरिक्षस्य चामूर्तत्वमुक्तम् । तदत्रानुसंधापयति मूर्तामूर्तेति । यदेत्यस्य तदिति प्रतिसंबन्धि । अत्र, यदा तमः, तदा दिवारात्रहादिके विना केवलः शिवः स्थित इत्यर्थस्य वर्णनीयत्वेऽपि यच्छब्दधटित- . 7