पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१४५

एतत् पृष्ठम् परिष्कृतम् अस्ति

yo श्रीरङ्गारामानुजमुनिविरचितभाष्ययुक्ता [अ.४. नैनमूर्ध्वं न तिर्यश्च न मध्ये परिजग्रभत् । न तस्य प्रतिमा अस्ति यस्य नाम महद् यशः ॥ १९ ॥ न संदृशे तिष्ठति रूपस्य न चक्षुषा पश्यति कश्चनैनम् । हृदा हृदिस्थं मनसा य एनमेवं विदुरमृतास्ते भवन्ति ॥ २० ॥ नैनमिति । ऊर्ध्वस्थाण्यादिरूपतया, पश्वादितिर्यग्रूपतया, तदुभयविलक्षणमनुष्यादिरूपतया सन्तमप्येनं कोऽपि जनः परितः 'सम्यक् समन्तात् न जग्रभव नाग्रहीत् । यद्वा ऊर्ध्वदेशादिषु न कोऽपि ज्ञातवान् । तस्य विभुत्वादिति भावः । यस्य महद्यश इति नाम यस्त्वपरिच्छिन्नकीर्तिः प्रसिद्धः , तस्य सदृशं किमपि वस्तु नास्तीत्यर्थः । (१९) ...(२०) ,

1. परितः सन्न प. 2. ऊर्ध्वप्रदेशे वा तिर्यकप्रदेशे वा. धान्ये न दिवेत्याद्यंशघटनं भाष्ये कृते तमश्शब्देन स्थूलारस्थारहितस्य तमस एव ग्राह्यत्वज्ञापनाय । न दिवेत्यादिना जडप्रपञ्चस्य तदा निषेधवत् जीवप्रपञ्चस्यापि तदा निषेधार्थ शिव एव केवल इति । शिवः केवलः स्थितः ; अशिवः दुःखाक्रान्तो व्यष्टिजीवप्रपञ्चो नासीदित्यर्थः । अस्य वाक्यस्य शिवसद्भावविधौ न तात्पर्यम् । किंतु विवक्षितनिषेधे । एक्कारसत्त्वे वाक्यस्य तदर्थविधानपरत्वात् । अतश्च यः शिवः प्रमाणान्तरतः प्रलयस्थिततयाऽधारितः, स इह ग्राह्यः। स च प्राक्, 'सर्वव्यापी स भगवान् तस्मात् सर्वगतः शिवः' इत्यादिना अनुवादरूपेण बहुकृत्वः शिवशब्देनैव अनवद्यः मङ्गलात्मा य उक्तः स एव केवलशिवः प्रसिद्धशिवाधिलक्षण: अपह्रतपाप्मा शिवः शाश्वतशिवो बुद्धयारूढ इति न पूर्वसंदर्भानुसंधायिना देवतान्तरग्रहणप्रसक्तिरिहापीति ध्येयम् । एवञ्च केवलपदमपि सार्थकम् । तत् केवलशिवम् । नपुंसकनिर्देशः सावित्र्यां तच्छब्दग्राह्यवस्त्वैक्यस्य बुद्धिस्थत्वात् । तत् सवितुः सवितृसंबन्धि । तद्विवरणम् , सवितृमण्डलमध्यवर्तीति । धियो यो नः प्रचोदयात् ' इत्यत्र पुल्लिङ्गच्छब्दस्य सवितृशब्दवाच्यसूर्यपरत्वेऽपि न तस्यैव धीप्रेरकत्वं विवक्षितम् , किंतु तदन्तर्वतिनः परमात्मन इति ज्ञापनाय प्रज्ञा च तस्मादिति । पुराणी अनादिर्नित्या , ' अविनाशी वा अरे अयमात्मा अनुच्छित्तिधर्मा' इति धर्मभूतज्ञानस्य नित्यत्वश्रुतेः । तादृशी प्रज्ञा तस्मात् परमात्मन एव हेतोः - तदनुग्रहादेवेति यावत् - प्रसृताः प्रसरणं विकामम् अवस्थाविशेषं प्राप्नोतीति । १८) स्वरूपतो गुण श्वा परिच्छिन्नत्वमुच्यते नैनमिति । (१९) विग्रहतः स्वरूपतश्चाचाक्षुषत्वमुच्यते न संदृश इति । एतद्वयाख्यानमिह न लक्ष्यते । कठोपनिषदि (६.९.) द्रष्टव्यम् । (२०) 1 ,