पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१४७

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ. ५. वीरान्मा नो रुद्र भामितो वधीर्हविष्मन्तः सदसि त्वा हवामहे ॥२२॥ [इति श्वेताश्वतरोपनिषदि चतुर्थोऽध्यायः ।। अथ पञ्चमोऽध्यायः॥ द्वे अक्षरे ब्रह्मपरे त्वनन्ते विद्याविद्ये निहिते यत्र गूढे । क्षरं त्वविद्या ह्यमृतं तु विद्या विद्याविद्ये ईशते यस्तु सोऽन्यः ॥ १॥ 1. सदमित्. पा. भामितः कुपितस्सन् वीर्ययुक्तान् ज्ञानवैराग्यादीन् मोक्षौपयिकान् मा वधीः मा हिंसीः । त्वत्पूजोपकरण पुरोडाशादिलक्षणहविरादियुक्ताः सन्तः त्वां सदसि हवामहे आराधयामः । इदित्यवधारणे । त्वामेवेत्यर्थः । ( २२) इति चतुर्थाध्यायप्रकाशिका । (५) पुनरपि ब्रह्ममाहात्म्य (तादात्म्यं) चिदचिद्विवेकञ्च प्रपञ्चयति । द्वे अक्षरे इति । ब्रह्मपरे ब्रह्माराधनरूपे अनन्ते असंख्यातव्यक्तिके नित्यानित्यफलसाधनतया [ ? क्षरामृतशब्दिते ] विद्याविद्याशब्दिते ( त ? ) ज्ञानकर्मरूपे द्वे? ] यत्र अक्षरे आत्मनि दुर्मोचतया लग्ने , सोऽप्यन्यः, आभ्यां समाराध्यमानः तत्फलप्रदश्चान्य इत्यर्थः । सदभित्यस्य सदेत्यर्थः ; सदसीत्येव वा । त्वा हवामहे इत्यनेन काम्यस्यापि भगवदाराधनत्वेन करणमुचितमिति ज्ञाप्यते भक्तानामाराध्येषु देवेषु भगवच्छेषत्वधियः सत्त्वात् । (२२) , ननु अहं ब्रह्मास्मीत्यनुसंधानरूपत्वाद् ब्रह्मोपासनस्य जीवब्रह्मैक्यमेष्टव्यमिति भ्रमापनुत्तये बृहदारण्यकादौ देवानामृष्यादीनाञ्चोक्तम् अहं ब्रह्मास्मीत्युपासनमपि जीवभिन्नब्रह्मोपासनमेवेति संसूच्य ब्रह्मणो महत्त्वम् , जीवस्यात्यन्ते तद्वैलक्षण्यश्चाणुत्वादिरूपं निरूपयितुं पञ्चमोऽध्याय आरभ्यते! तमवतारयति पुनरपीति । अक्षरे इत्येतत् द्वे इत्येतत्समानाधिकरणं न भवति । ब्रह्मभिन्नाक्षरद्वयाभावात् । 'क्षरं प्रधानममृताक्षरं हरः' इति प्रागुक्तरीत्या क्षरामृतशब्दाभ्यां प्रकृतिपुरुषयोर्ग्रहणेन विद्याविद्याशब्दयोरपि ज्ञानस्वरूपजडात्मकनिरुक्तचिदचित्परत्ववर्णनसंभवेऽपि द्वे अक्षरे इति हि न तद्ग्रहणसंभवः । क्षरत्वेन वर्णनावसर एव प्रकृतेरक्षरत्वकथनानौचित्यात् । अतः अन्यथा व्याकुर्वन् पूर्वार्धं जीवपरम् , उत्तरार्धञ्च ब्रह्मपरमाह द्वे इति सन्ट जोवपरं यत्रेत्येतत्समा नाधिकरणम् । विद्याविद्यापदे ज्ञानकर्मपरे । सोऽन्य इलस्योत्तरार्धगतस्याश्कर्षः स्वरससिद्ध इत्यभिसधायाह ब्रह्माराधनेत्यादि गूढ़े निहिते इत्यस्य विवरणं दुर्मोचतयालग्ने इति । (१)