पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१४८

एतत् पृष्ठम् परिष्कृतम् अस्ति

- अ. ५.] श्वेताश्वतरोपनिषत् यो योनिं योनिमधितिष्ठत्येको विश्वानि रूपाणि योनीश्च सर्वाः । ऋषि प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्विभर्तिं जायमानं च पश्येत् ।। २ ।। एकैकं जालं बहुधा विकुर्वन्नस्मिन् क्षेत्रे संहरत्येष देवः । भूयस्सृष्ट्वा पतयस्तथेशः सर्वाधिपत्यं कुरुते महात्मा ॥३॥ सर्वा दिश ऊर्ध्वमधश्च तिर्यक् प्रकाशयन् भ्राजते यन्न्वनडान् । एवं स देवो भगवान् वरेण्यो योनिस्वभावानधितिष्ठत्येकः ॥ ४ ॥ यो योनिमिति । सर्वाणि समष्टिव्यष्टिरूपाणि तत्तद्योनीश्च सर्वाः योऽधितिष्ठति , यस्तु अग्रे सृष्टिपूर्वसमये प्रसूतं कपिलं ज्ञानादियुक्त विभर्ति कृतवान् , जायमानदशायाञ्च सानुग्रहमैक्षत, सोऽप्यन्य इति पूर्वेण संबन्धः । (२) एकैकमिति । यस्मिन् क्षेत्रे प्रकृतिरूपे जालवद् बन्धकं महादिकार्यवर्गं विविधतया कुर्वन् पुनश्च संहरति, तस्मिन्नेव प्रकृतिरूपे क्षेत्रे कल्पान्तरेऽपि भूयः प्रजापत्युपलक्षितं प्रपञ्चं सृष्ट्वा सर्वदा सर्वेषां नियन्तृतयाऽऽस्ते यतोऽसौ, [ततो ? ] महामहिमशाल्यात्मेत्यर्थः । नन्वेतस्य कथं युगपत् सर्वयोन्यधिष्ठातृत्वमुपपद्यत इत्यत्राह सर्वा दिश इति । कालचक्रपरिवर्तनहेतुतया अनडुच्छब्दवाच्यः सूर्यः तिर्यगूर्ध्वमधश्च युगपद्भासयन् यत् यथा भासते, तथा मुमुक्षुभिर्वरणीयो भजनीयो भगवानेक एव सर्वयोन्यधिष्ठाता भवतीत्यर्थः । ब्रह्मत्वेन शङ्कयमानात् कपिलादितोऽप्यन्यस्य परब्रह्मणः कुतस्तरां जीवैक्यमिति बुबोधयिषया कपिलादिद्धितीयमन्त्रे प्रस्तुतः। योनि योनिमिति सर्वसमष्टिग्रहणम् । विश्वानि रूपाणीति नामरूपे व्याकरोदित्युक्तसर्वव्यष्टिरूपग्रहणम् । योनीश्च सर्वा इति समष्टिव्यष्टिसर्वकारण- भूतकालस्वभावादिकारणग्रहणम् । जायमानञ्चेति प्रसककपिलमात्रग्रहणौचित्यात् पश्येदित्यस्य अपश्यदित्यर्थ उक्तः। अन्यथा सकल जायमानपुरुषदर्शनस्य तत्क्रियमाणत्वाभावेन जायमानश्च पश्येदिति सामान्योक्त्ययोगात् । (२) अनन्तब्रह्मकल्पकारणत्वादस्य चतुर्मुखाद्यतिशयिते माहात्म्यमित्युच्यते एकैकमिति । जालं समष्टिवर्ग विकुर्वन् व्यष्टिरूपेण कुर्वन् । तथा एवम् । भूयः महाप्रलयात् पश्चात् । पतय इति द्वितीयार्थे प्रथमा । तदाह प्रजापत्युपलक्षितमिति । प्रजापतयः चतुर्मुखदक्षादयः सर्वे । (३) कालचक्रेति । अनड्रान् हि अनसि युक्तः चक्रपरिवर्तनहेतुः । तथा सूर्यः दिनमासर्व यनादिकालात्मकचक्रपरिवर्तकत्वादनड्रानिति । (४) (३) (४)