पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१४९

एतत् पृष्ठम् परिष्कृतम् अस्ति

, .. श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ.५. यञ्च स्वभावं पचति विश्वयोनिः पाच्याँश्च सर्वान् परिणामयेत् यः । सर्वमेतद्विश्वमधितिष्ठत्येको गुणांश्च सर्वान् विनियोजयेद्यः ॥ ५॥ तद् वेदगुह्योपनिषत्सु गूढं तद् ब्रह्मा वेदते ब्रह्म योनिम् । ये पूर्व देवा ऋषयश्च तद्विदुस्ते तन्मया अमृता वै बभूवुः ॥६॥ गुणान्वयो यः फलकर्मकर्ता कृतस्य तस्यैव स चोपभोक्ता। स विश्वरूपस्त्रिगुणस्त्रिवर्त्मा प्राणाधिपः संचरति स्वकर्मभिः ॥७॥ यञ्चेति । यच्चेति लिङ्गव्यत्ययश्छान्दसः। यः सर्वेषामग्निजलादिवस्तूनाम् उष्णानुष्णस्वभावं पचति संकल्पलक्षणपाकेन निर्वतयति, यश्च पाच्यान् परिणामयोग्यान् परिणमयति । सत्त्वा (सत्या) दींश्च गुणान् प्रवर्तयति , स परमात्मा सर्वप्रकृत्यधिष्ठातेत्यर्थः । तद्वेदेति । तेषु प्रसिद्धेषु वेदेषु गुह्योपनिषत्सु [ च तात्पर्यविषयतया प्रतिपाद्य ब्रह्मणो वेदस्य योनिभूतं तत् परं ब्रह्म सकलवेदप्रवर्तकः ब्रह्मा चतुर्मुखः वेदते जानाति । अतादृशो न जानाति । ये च पूर्वे देवा ऋषयश्व तत् ज्ञातवन्तः, ते सवै स (तत्स ? ) मानाकारा मुक्ता बभूवुरित्यर्थः । (५+६) एवं परमात्मस्वरूपं तज्ज्ञानस्यामृतत्वसाधनत्वञ्चोक्त्वा जीवस्वरूपं शोधयति गुणान्वय इति । सत्त्वरजस्तमोगुणानामन्वयो यस्य स तथोक्तः । सत्त्वादिगुणान्वितस्सन् यत् फलसाधनभूतं कर्म यः करोति , स एव तस्यैव फलं भुङ्के । एवं नियतकर्तृत्वभोक्तृत्वशाली स्थावरनरपक्ष्यादिरूपयुक्तः कामक्रोधलोभरूपगुणत्रययुक्तो देवयानपितृयाणकष्टगतिरूपमार्गत्रययुक्तः प्राणसहचरितस्सन् कर्मपाशबद्धः सञ्चरतीत्यर्थः । कालः स्वभावो नियति रित्यादिप्रागुक्तस्वभावादीनामेतदधीनत्वजिज्ञापयिषयोच्यते यच्चेति । (५) ईशब्रह्मवेदनात् मुक्तिः चतुर्मुखादीनां देवानामृषीणाश्चेति अस्योपास्यत्वमुच्यते तदिति । अत्र बृहदारण्यकस्थितम् , 'योयो देवानां प्रत्युबुध्यत, अहं ब्रह्मास्मीति, तथर्षीणाम् , तथा मनुष्याणाम् , स एव तदभवत्' इत्यादि वाक्यमनुसंधेयम् । (६) एवं देवैः ऋषिभिश्च क्रियमाणम् अहं ब्रह्मास्मीत्युपासनं न जीवब्रह्माद्वैतपरम् , ब्रह्मणा महता जीवस्यात्यन्ताणोः ऐक्यायोगात् । किंतु शरीरात्मभावायत्तविशिकष्टैक्यपरमिति व्युत्पादयितुं जीवाणुत्वमुपदिश्यते गुणान्वय इत्यादिना । तत्र परमात्मवत् अस्य विभुत्वं न स्वीकार्यम् , कर्मफलभोगार्थोत्क्रान्त्यनेकलोकगत्यागतीनां संप्रतिपन्नत्वादिति परममहत्त्वनिरासः प्रथममन्त्रेण क्रियते । (७) " 6 ,