पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१५

एतत् पृष्ठम् परिष्कृतम् अस्ति

12

तद् बुध्वा मोक्षमन्त्रान् जपतु स कथितान् कर्म चोक्तं विदध्यात् ।
द्रष्टारं त्वमादृष्टं निखिलगतममुं स्वस्य चात्मेति विधात् ॥ ५५

छान्दोग्योपनिषत्


छान्दोग्येऽष्टप्रपाठे प्रथमत उदितौङ्कार उद्गीथभागे
प्राणादित्यादिदृष्टिस्तदनु विभजनात् पञ्चधा सप्तधा च ।
द्वैतीयीके प्रपाठे दृशिरपि विविध साग्न्यथ बलसंस्थः
धर्मस्कन्धत्रयस्थस्तव पदममृतः श्रीश ! यातीत्यवाचि ।।
५६

नानाध्यात्माधिदैवप्रकटितदृर्शिकर्वसामगेयो खह्युदाख्योऽ
स्यक्ष्यानित्यान्तरिद्धो हरिरत उदितोद्गीथोतेद्गातृता च ।
श्रीमन् ! आदित्यविद्याऽधिगमित ! तथोद्गीथ आक्राशनाम्ना
प्रस्तावे प्राणनाम्ना लससि तदिदमप्युक्तमाद्यप्रपाठे ॥ ५७

गम्भीराम्भस्समुत्थं जलभरितमहानालमर्कांशुफुल्लं
रक्तं यत् पुण्डरीकं तदुपमनयनोऽस्यानखन्तात् सुवर्णः ।
उन्नामा पूरुषो य श्रितरम ! विदुषां सर्वपाप्मोद्गतिः (त्क्रमः) स्यात् ।
तस्यार्कस्थय मत्या फलमुपरि जयत्यक्षिगस्य त्वधस्तात् ।। २८

उक्त्वा साम्नो गतिं प्राक् स्वरमिह च जगौ प्रामन्नं तथाऽपः
स्वर्गं दाल्भ्यः क्रमस्थां गतिमिह शिलको भूमिमन्ते परस्त्वाम् ।
आकाशं सर्वभूताद्भवविलयकरं जैबलिः प्राप्यकाष्ठां
श्रीशोद्गीथो वरिष्ठस्त्वमयमिति विदो जीवनं स्याद् वरिष्ठम् ॥ ५९

प्रस्तोत्रुर्द्गीथकारप्रतिहरणकरान् एत्य यज्ञे ह्युषस्तिः
प्राणाञ्चादित्यमन्नं क्रमत इह जगौ देवतां वेदनीयाम् ।
स प्रायः सर्वभूतप्रभवविलयकृत् वेङ्कटेशासि वेद्य
प्रस्तावे भक्तिभेदे फलमिह तु भवेद् वीर्यवत्त्वातिरेकः ॥ ६०