पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१५०

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्वेताश्वतरोपनिषत् अङ्गुष्ठमात्रो रवितुल्यरूपः सङ्कल्पाहङ्कारसमन्वितो यः । बुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रो ह्यवरोऽपि दृष्टः ॥ ८ ॥ वालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥ ९ ॥ अङ्गुष्ठमात्र इति । बुद्धेः अन्तःकरणस्य सत्त्वरजस्तमोलक्षणगुणकारितेन आत्मधर्मभूतनानाविधार्थविषयकाध्यवसायेन युक्तः तत्कार्येण तत्तत्फलसङ्कल्पेन, आढ्योऽभिजनवानस्मी ' त्यहङ्कारेण [च ? ] युक्तस्सन् आत्मवत् स्वप्रकाशः , 'अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात् ' इत्युक्तरीत्या अङ्गुष्ठपरिमाणः शास्त्रेषु दृष्टः । ततोऽपि अवरः हीनपरिमाणः आराग्रमात्र इत्यपि दृष्टः शास्त्रेषु दृष्ट इत्यर्थः । (८) स्वमतमुपन्यस्यति वालाग्रेति । वालाग्रशतांशशतांशतुल्यपरिमाण एव जीवो मोक्षे धर्मभूतज्ञानविकासेन विभुत्वलक्षणानन्त्याय प्रभवतीत्यर्थः । (९) भवतु तर्हि मध्यमपरिमाणः । न च तदा सावयवत्वादनित्यत्वापत्तिरिति वाच्यम् - श्रीवैकुण्ठनगरगोपुर परविग्रहादानामिव सावयवत्वेऽपि प्रमाणवलेन नित्यत्वस्य संभवात् । अणोर्महतश्चेवान्यविधपरिमाणकस्यापि प्रमाणतो निरवयवत्वस्त्रीकारसंभवाच्चेत्यत्र तत् परिमाणं प्रत्यग्वस्तुनः श्रूयमाणमव्यवस्थितं कल्पनिकमित्युच्यते अङ्गुष्ठेति । अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात्' इत्येतादृशप्रमाणानुसारादङ्गुष्ठमात्रत्वस्येव, आराग्रमात्रत्वादेरपि प्रमाणिकवादेकतरपरिशेषे न किञ्चिन्नियामकमिति भावः | रवितुल्यरूप इति । स्वपकशोऽयं यदि मध्यमपरिमाणतयाऽपि प्रकाशमानः स्यात् , तदा तत् स्वाभाविकं स्यात् । न त्वेवमिति सूचनायैतदुक्तिः । अनुष्ठमात्रत्वं न वास्तवम् , किंतु हृदयस्याङ्गुष्ठपरिमाणत्वात् हृदयपरिच्छिन्नत्वप्रयुक्तमङ्गुष्टमात्रत्वमिति दर्शयितुं बुद्धेर्गुणनेत्युक्तम् । नन्वत्यन्ताणोः हृदयकुहरकोणनिलीनस्य स्थूलं हृदयमादाय तत्परिमाणत्ववाचोयुक्तिरपि कथमित्यत्र जैवधर्मभूतज्ञानविकासस्य प्रसृमरस्य हृदयपरिच्छिन्नत्वादिति ज्ञापयितुम् आत्मगुणेन चैवेति ! आराग्रमात्रोऽह्यवरोऽपि दृष्ट इति । आरा चर्मसूची । नरहृदयस्याङ्गुष्टमात्रतया तत्र स्थितिदशायां जीवस्यातयात्वसंभवऽपि मशकपिपीलिकाद्यणुदेहगतस्य आराग्रमात्रत्वादिकमप्येष्टव्यं हीति भावः । तर्हि यथायथं संकोचविकासभावितबहुविधपरिमाण एवायमस्तु इति चेन्न ---- तथासति देहसमानपरिमाणवादिजैनमतावतारात् । निरवयवत्वनिर्विकारत्वश्रुतिविरोधात्तदयोगादिति । (८) अतोऽयमत्यन्ताणुरिति सिद्धान्त उच्यते वालेति । शतभागस्येत्यादिकमत्यन्ताणुत्वनिर्भागत्वनिरूपणेदम्परम् । एवम्भूतस्य आराग्रमात्रवङ्गुष्ठमात्रत्वयोरुपपादनं नाशक्यम् । मुक्तावानन्त्यस्यापि संमतेः, तदुपपादनं यत् धर्मभूतज्ञानमादाय, तदेवादाय एतयोरप्युपपादनं शक्यम् ,