पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१५१

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गमानुजमुनिविरचितभाष्ययुक्ता [अ. ५. नैव स्त्री न पुमानेष न चैवायं नपुंसकः । यद्यच्छरीरमादत्ते तेन तेन स युज्यते ॥ १० ॥ सङ्कल्पनस्पर्शनदृष्टिहोमैर्ग्रासाम्बुवृष्टयाऽऽत्मविवृद्धजन्म । कर्मानुगान्यनुक्रमेण देही स्थानेषु रूपाण्यभिसंप्रपद्यते ॥ ११ ॥ स्त्रीपुंनपुंसकत्वादिकमपि तस्य तादृशशरीरसंबन्धकृतम् ; न तु स्वाभाविकमित्याह नैव स्त्रीति | स्पष्टोऽर्थः । (१०) देहप्राप्तौ हेतुमाह संकल्पनेति । पुण्यविषयकसंकल्पगङ्गादिलक्षणपुण्यवस्तुस्पर्शतादृशवस्तुदर्शनयागहोमादिभिरात्मनो विवृद्धियुक्तं जन्म- उत्कृष्टं जन्मेति यावत्--अनेन क्रमेण (?) कर्मानुसारीणि रूपाणि तेषु तेषु ब्राह्मणादिषु योनिषु [अनुक्रमेण ? ] पर्यायेण प्रपद्यत इत्यर्थः । (११) अवस्थाविशेषग्रहणेनेति सूचयितुं स चानन्त्याय कल्पत इत्युक्तम् । आनन्तद्याय अपरिच्छिन्नत्वाय । धर्मभूतज्ञानस्य सर्वव्यापी विकासो मुक्ताविति तद्द्वारा जीवस्यानन्त्यमिति व्यक्तं भाष्यादौ । स विज्ञेय इत्यनेनाणुन्वविधाने नैर्भर्याविष्करणात् अणुत्वस्य काल्पनिकत्वम्, आनन्त्यस्य वास्तवत्वश्चात्र नैव वक्तुं शक्यम् (९) ननु जीवस्य स्त्रीपुरुषनपुंसकात्मना त्रैविध्यस्य प्रसिद्धत्वात , स्त्रीत्वादेश्वावयवसंनिवेशविशेषादिनैवोपपाद्यत्वात् सावयवत्वमावश्यमिति कथमयमत्यन्ताणुरिति शङ्कायाम् , स्त्रीत्वादिकं शरीरगतम् , न त्वात्मगतमिति परिहारः क्रियते नैव स्त्रीति । एक एव जीवः कालभेदेन स्त्री च भवति, पुरुषोऽपि भवतीति दृष्टम् । अतः स्त्रीजीव एव स्त्री, पुरुषजीव एव पुरुष इति न निर्बन्धः। एतचापृथक्सिद्धशरीरगतस्त्रीत्यादिनैव व्यवहारनिर्वाहे, जीवऽपि साक्षात् तदनीकारे न किश्चित् प्रमाणम् । किमुत मुक्तकण्ठमिह निषेधे सति । (१०) एवंरूपशरीरग्रहणे कारणमुच्यते संकल्पनेत्यादिना । आत्मसंबन्धि यत् विवृद्धमुत्कृष्टं जन्म, तत् संकल्पनादिभिर्भवतीत्यर्थः । अनेन निकृष्टजन्मकारणमेतद्विपरीतरूपमित्यर्थसिद्धम् । विवृद्धिजन्मेति पठित्वा विवृद्धिश्च जन्म चेति द्वयमात्मनः संकल्पनादिभिरिति परे व्याचक्षते । विवृद्धिपदम् 'अपक्षयविनाशाभ्यां परिणामधिंजन्मभिः' इत्युक्तभावविकारान्तरणामुपलक्षणमिति च । एवञ्च पुण्यापुण्यजन्मद्वयस्यापि सुग्रहतया संकल्पनेत्यादिकमपि उभयसाधारणम् । अतः पुण्यविषयकसंकल्पादिपर मिव पापविषयकसंकल्पन पतितादिस्पर्शनाभिचारहोमादिपरमपीष्यते । अत्र ग्रासाम्बुवृष्टयेत्यस्य विज्ञानभगवत्कृतं व्याख्यानमन्यापेक्षया आदणीयमस्ति । तद् यथा- 'उत्कृष्टदेशकालपात्रेषु अन्नाम्बुनोरत्यादरेण दानमतिदानं पुण्यहेतुर्भवति ; विपरीतेष्वतिदानं पाप हेतुः । अथवा योग्यायोग्येषु ग्रासप्रदानं पुण्यपापहेतुर्भवति, अम्बुदानश्च।। तथा वृष्टिः । ओ वृश्चू छेदने । अनर्थवतामनर्थोच्छेदनं पुण्यहेतुर्भति ; अर्थवतामर्थोच्छेदनं पापहेतुः, - इति । (११)