पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१५२

एतत् पृष्ठम् परिष्कृतम् अस्ति

अ. ५.] श्वेताश्वतरोपनिषत् स्थूलानि सूक्ष्माणि बहूनि चैव रूपाणि देही स्वगुणैर्वृणोति । क्रियागुणैरात्मगुणैश्च तेषां संयोगहेतुरपरोऽपि दृष्टः ॥ १२ ॥ अनाद्यनन्तं कलिलस्य मध्ये विश्वस्य स्रष्टारमनेकरूपम् । विश्वस्यैकं परिवेष्टितारं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ १३ ।। भावग्राह्यमनीडाख्यं भावाभावकर शिवम् । स्थूलानीति । मशकमातङ्गादिस्थूलसूक्ष्मशरीराणि बहुविधान्यपि तत्तत्फलाभिसन्ध्यादिलक्षणरागादिरूपात्मगुणप्रयुक्तयागादिरूपक्रियालक्षणैः गुणैहेतुभिर्भजते । तादृशात्मगुणयोगे च पूर्वपूर्व कर्मैव हेतुदृष्ट इत्यर्थः । (१२) अनाद्यनन्तमिति । कलिलस्य कार्यस्य मध्ये स्थित्वा हिरण्यगर्भप्रजापत्याद्यनेकरूपतया विश्वस्य स्रष्टारमित्यर्थः । शिष्टं पूर्ववत् । (१३) भावेति । भावग्रह्यं भक्तिग्राह्यं अनीडत्वेन अनिलयत्वेन अनाधारत्वेनाऽऽख्यायमानं 1 विश्वस्य भावाभावकरं सर्गसंहारकारकं सर्वदा अशुभास्पृष्टं I. ख्याप्यमानं मशकमातङ्गेति । मातङ्गमशकेति भाव्यम् । एतदुत्पत्त्यनुगुणक्रियाविशेषो यः कश्चिदपिय गादीत्य विवक्षितः । (१२) एवमणुत्व - सृज्यमानत्वाभ्यां जीवं निरूप्य स्रष्टत्वमहत्त्वाभ्यां परमात्मनः तद्वैलक्षण्यं व्यनक्ति अनादीति । विश्वस्य परिवेष्टितारमिति परममहत्त्वं ज्ञाप्यते। (१३) 'ये पूर्व देवा ऋषश्च तद विदुः, ते तन्मया अमृता वै बभूवुः' इति पूर्व बहूनामेतदुपासनान्मुक्तिरासीदिति यदुकम् , तत् एवम्भूतजीवविलक्षणोपासनादेवेति निगमयति भावेति । 'भक्तकलभ्ये पुरुषे पुराणे' इत्युक्तरीत्या बाह्यसंभरणमप्रतीक्ष्य भक्तिमात्रेण सुग्रहत्वं भावग्राह्यत्वम् । अनाधारेति। आधारः शरीरादिः । नीडपर्यायः कुलायशब्दः शरीरे प्रयुक्तः, 8