पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१५३

एतत् पृष्ठम् परिष्कृतम् अस्ति

५८ [अ. ६. श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम् ।। १४ ॥ इति श्वेताश्वतरापनिषदि पञ्चमोऽध्यायः ।। अथ षष्ठोऽध्यायः ।। स्वभावमेके कवयो वदन्ति कालं तथाऽन्ये परिमृह्यमानाः । देवस्यैष महिमा तु लोके येनेदं भ्राम्यते ब्रह्मचक्रम् ॥ १॥ विद्यासर्गकारण (कारिणं ! ) ये पूर्व ज्ञातवन्तः, ते प्रकृतिविनिर्मुक्ता बभूवु- रित्यर्थः । द्विरुक्तिरघ्यायसमाप्त्यर्थी । ) (१४) इति पञ्चमाध्यायप्रकाशिका - -- पुनरपि परमात्मनो गुणान् वक्तुमध्यायान्तरारम्भः । स्वभावमिति । केचन लोकायतिकाः जगचक्रपरिवृत्तिहेतुं स्वभावं वदन्ति । अन्ये भगवन्मायामोहिताः कालकर्मादिकं वदन्ति । तदिदमौपनिषदपरमपुरुषवरणीय हेतुभूतगुणविशेषविरहिणां जल्पितम् । परमात्म-महिम्नैव ब्रह्माश्रितं जगच्चक्रं बम्भ्रमीतीत्यर्थः । अथवा ब्रह्म प्रकृतिः । प्रकृतप्राकृतचक्रं बभ्रमीतीत्यर्थः 'बहिष्कुलायादमृतपरित्या' इति । कलासर्गकरमिति, ‘स प्राणमसृजत प्राणाच्छ्रद्धाम् इति प्रश्नषष्टखण्डोक्तप्राणादिषोडशकलाना सुविधाम । तेन षोडशकलजीववैलक्षक्षण्यं वेदितं भवति । अथापि भावाभावकरमिति सर्वसृष्टिसंहारोक्त्या अर्थान्तरमाह विद्यासर्गेति । पूर्वमर्थसृष्टिरुक्ता, अनेन शब्देन च शब्दसृष्टिरिति । भागे तात्पर्यम् । विदुरिति पाठे. 'ये पूर्व देवा ऋषयश्च तद् विदुः' इत्यत्रैव वर्तमान लिया। मनु बेर अविदुरिति पदच्छेदः । जहुरिति भूतकालनिर्देशात् : अविदुः- अजानन् । अन्तिमेऽस्मिन् षष्टेध्याये पराभ्या युक्तार्थानुवादपूर्वक परमात्मगुणा अपि विशिष्य निर्दिश्यन्ते, 'पराऽस्य शक्तिर्विविधैव श्रूयते स्वामाविकी ज्ञानबलक्रिया च' इति, धर्मावहं पापनुदं भगेशम्', 'एको देवः सर्वभूतेषु गूढः 'इत्यादिना । तदाह पुनरपि परमात्मनो गुणान् वक्तुमिति । भगवतः प्रपत्तिमात्रवशीकार्ययो कि परमदयालुत्वादिकमप्यन्ते इहाऽऽविष्क्रियते, 'मुमुक्षु शरणमहं प्राद्ये शत । तत्र प्रथमेेऽध्याय, कालः स्वभावो नियतिच्छा-चिन्त्यम्' इत्युक्तमिह प्रथममुपपाद्यते स्वभावमित्यारभ्य चिन्त्यमित्यन्तेन । तत्र प्रथममन्त्रेण कालः, स्वभावः इत्यनयोजगत्कारणत्वपक्षः प्रतिक्षिप्यते । देवस्यैष महिमेति । देवसंकल्प एव मुख्यं कारणम् । स्वभावादिकं तु तदधीनमिति भावः । (१) + -