पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१५६

एतत् पृष्ठम् परिष्कृतम् अस्ति

अ. ६.] श्वेताश्वतरोपनिषत् R तं विश्वरूपं भवभूतमीड्यं देवं स्वचित्तस्थमुपास्य पूर्वम् ॥ ५ ॥ स वृक्षकालाकृतिभिः परोऽन्यो यस्मात् प्रपश्चः परिवर्ततेऽयम् । धर्मावहं पापनुदं भगेशं ज्ञात्वाऽऽत्मस्थममृतं विश्वधाम ॥ ६ ॥ तं कर्मवशादनन्तशरीरं भवभूतं भवं संसारं भृतं प्राप्तम् संसारिणमिति यावत् ईड्यं स्तुत्यम् - अपहतपाप्मत्वादिगुणकमिति यावत् अत एव देवं द्योतमानं स्वप्रकाशज्ञानानन्दरूपं स्वहृदयस्थं प्रथमत उपास्य, स वृक्षेति । यस्मादयं चिदचित्प्रपञ्चः परिवर्तते, स वृक्षकालाकृतिभ्यः परः उत्कृष्टः-- वृक्षशब्देन छेदनाहप्रकृतिप्राकृतमुच्यते आ समन्तात कृतिः यत्नो यस्येति आकृतिः कर्ता जीवः । प्रकृतिकालजीवेभ्य उत्कृष्ट इत्यर्थः । ज्ञानोत्पत्तिप्रतिबन्धकपापानि अपनुद्य तदनुकूलपुण्यप्रवर्तकम् , 'ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ' इत्युक्तानां ज्ञानादीनामीश्वरं विश्वस्य धामभूतमाधारभूतं मरणाद्यवद्यशून्यं स्वात्मनि अन्तर्यामितया वर्तमानं ज्ञात्वा मुक्तो भवतीत्यर्थः । (५+६) कठोपनिषदि (१.१७.) · ब्रह्मजज्ञं देवमीडयं विदित्वा' इत्यत्र, “ जीवात्मानमुपसकं ब्रह्मात्मकत्वेनावगम्य" इति भाष्यकृता व्याख्यानात् तदात्या इहापि इहापि देवमिति ब्रह्मात्मकत्य- विवक्षाऽपि भवेत् । (५) एवं स्वभावकालकर्मपञ्चभूतजीवेभ्यः प्रस्तुतेभ्योऽन्यः परमात्मा ज्ञातव्य उच्यते स वृक्षकालाकृतिभिरिति । वृक्षेति ऊर्ध्वमूलोऽवाक्छा एषोऽश्वत्थः सनातनः' इति कठोक्तं प्रत्यभिज्ञाप्यते । आकृतिशब्दस्याऽऽकाररूपार्थविवक्षायां वैयर्थ्यात् प्रकृतजीवपरतया संभवति सार्थक्ये तत्त्यागायोगाच्च तदुचितमर्थमाह आ समन्तादिति । तृतीया, 'अन्यदेवाहुर्विधये' त्यादाविव पञ्चम्यर्था । ज्ञात्वेत्यस्य उत्तरमन्त्रे विदामेत्यत्रान्वयो न भवति । झानवेदनकर्मणोरेकत्वेन ज्ञानवेदनयोरप्यैक्यात् क्त्वाप्रत्ययानुपपत्तेः । न च ज्ञानमिदं वाक्यार्थज्ञानमात्रम् ; वेदनं ध्यानमिति वाच्यम् - वाक्यार्थज्ञाने जीवोपासनानन्तरभावित्वनियमाभावेन पूर्वमुपास्येत्युक्तानन्तर्यानन्वयात् । अतो मुक्तो भवतीत्यध्याहृत्य पृथग्वाक्यकरणम् | ननु आदिरित्यादि सर्व परमात्मपरमेवास्तु । तत्र स्वचित्तस्थत्वेन तस्य (विग्रहविशिष्टस्य) उपासनं पूर्वमुच्यते। अथ आत्मस्थत्वेन ध्यानमुक्तम्। अथ भुवनेशत्वेन सर्वविभूतिविशिष्टतया वेदनं परज्ञानरूपं मुक्तिप्राकालिकं प्रार्थ्यते। तथाच मुक्तो भवतीति मा भूदध्याहारः । अथवा ज्ञात्वेति ज्ञानं आलम्बनसशीलनरूपमस्तु : विदामेति चोपासनमिति चेत् --- किमनेन ? यत्र सौष्ठवम् , तदाद्रियतां सम्यग् विमृश्य । (6)