पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१५७

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ.६. तमीश्वराणां परमं महेश्वरं तं देवतानां परमश्च दैवतम् । पति पतीनां परमं परस्ताद् विदाम देवं भुवनेशमीड्यम् ।। ७ ।। न तस्य कार्य करणञ्च विद्यते न तसमश्चाभ्यधिकश्च दृश्यते । पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ॥ ८॥ न तस्य कश्चित् पतिरस्ति लोक न चशिता नव च तस्य लिङ्गम् । सकारणं करणाधिपाधिपो न चास्य कश्चिञ्जनिता न चाधिपः ।।९।। यस्तन्तुनाभ इव तन्तुभिः प्रधानः स्वभावतः । तमीश्वराणामिति । विदामेति ज्ञानप्रार्थना । शिष्टं स्पष्टम् । (७) न तस्येति ! कार्यं शरीर ! कारणम्- इन्द्रियम् । ज्ञानबलाभ्यां सहिता सृष्टिसंहारादिलक्षणक्रिया ज्ञानबलक्रिया । शिष्ट स्पष्टम् । (८) न तस्य कश्चिदिति । लिङ्गं ज्ञापन हेतुः । करणाधिपो जीवः । शेष- मतिरोहितार्थम । यस्तन्तुनाभ इति। लूताख्यः कीटावशेषः स्वसंनिहितजन्तुविशेष यथा तन्तुभिरावृणोति , एवं प्रकृतिजैः प्राकृतैः तत्वैः स्वभावतः स्वेच्छातः महेश्वरमिति न रूढ्यर्थरुद्रविवक्षारं भवः ; तदा पारम्यानन्वयात् : देवतामध्ये परमदेव- तात्वस्य पतिमध्ये परमपतित्वस्य चेव ईश्वरमध्य परमेश्वरत्वात्रि कथ्यमानतायाः साहचर्यबलसिद्धतया परममहेश्वरपदान्तर्गतेश्वरशब्दस्य यौगिकत्यावधारणादिवि हि श्रुतप्रकाशकोक्तमुपरि अनुवदिष्यति । महेश्वरमित्यत्र महत्त्वमविवक्षि वस्तुस्थित्यनुवादमात्रम् । अस्तु वा ईश्वराणामिति. पदं महेश्वराणामित्यर्थकम् । ' ईश्वराणां मध्य परमत्वात् महेश्वरः ; देवतानां मध्ये परमत्वात् देवतभूतः ; देवतैव दैवतमिति व्युत्पत्त्या अस्य देवतात्व नियतम ; अन्येषां तु मनुष्यादिकिञ्चिदपेक्षया देवतात्वम् , उत्कृष्टापेक्षथा च तदभाव इति देवतात्वं न नियत'मान वाक्यार्थवर्णनेऽपि, महेश्वर पदस्य महाष्चासौ इश्वरश्च महेश्वर इति योगार्थ एव विवक्षितो भवतीति ध्येयम् । (५) यस्तन्तुनाभ इवेति तन्तुनाभदृष्टान्तेन जन्तूनां स्वात्मनि लयसंपादनायेव तन्तुनाभः तन्तून् निर्भाय वितनोति यथा, तथा देवोऽपि सन्तको जीवानां स्वात्मन्यप्ययरूपमोक्षाप्रापणाय स्वशरीरात् प्रधानात् तन्तुतुल्यानि महदादीनि कार्याणि सृष्ट्वा विस्तृणातीति दर्शितम् । (१०)