पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१५८

एतत् पृष्ठम् परिष्कृतम् अस्ति

अ. ६.] श्वेताश्वतरोपनिषत w देव एकः' ममावृणोति स नो दद्याद् ब्रह्माप्ययम् ।। १० ॥ एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी वेता केवलो निर्गुणश्च ॥ ११ ॥ एको वशी निष्क्रियाणां बहूनामेकं बीजं बहुधा यः करोति । तमान्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ।।१२।। नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् । 1. स्वमत्वृणोति. पा. + , (११) चिद्वर्गमावृणोति लुप्तज्ञानं करोति [यः ?], स देवोऽस्माकं ब्रह्मणि अप्ययमात्यन्तिकं लयं करोतु । मुक्तस्य ब्रह्मण्यप्ययो नाम भेदकाकारास्फुरणम् । एको देव इति । सर्वभूतेषु इतरा विदिततया वर्तमानः, सर्वव्यापितया सर्वभूतात्मा. तच्छरीरेप्वनुप्रविष्टः, कर्मसु प्रेरकः, चेता --- चिञ् चयन' इति हि घातुः सकलप्रपञ्चनिमाता, त(अ)थापि गुणत्रयवश्यस्वाभावात् फलाभिसन्धि- पूर्वकर्तृत्वाभावेन [च ?) (1) केवलोदासीनः, ईशः (१), ' अपहतपाप्मा दिव्यो देव एको नारायण ' इति प्रसिदो दिव्यो देव एक एवेत्यर्थः । एको वशीति । निष्क्रियाणां स्वतः प्रवृत्तिरहितानां सर्वचेतनानां वशी--स्वाधीनसर्वचेतनवर्ग इति यावत्--- एकं जगद्बीजमव्यक्तलक्षणं महदहङ्कारादिरूपेण या बहुधा करोति, तं स्वान्तर्यामिणं ये जानन्ति, त एव मुक्त्ता भवन्तीत्यर्थः । नित्य इति । अनित्यानां चेतनानां बहूनां नित्य एक एव चेतनस्सन् यः ? कामान् विदधति, तज्ज्ञानं मुक्ति हेतु !] रित्यर्थः । अत्र नित्यचेतनानामनित्यत्वं धर्मभूतज्ञानसङ्कोचादिधर्मयोगादिति द्रष्टव्यम् । नित्यानां मध्ये नित्यः अत्यन्तनित्यः, चेतनानां मध्ये चेतनः परमचेतनः इत्यर्थाश्रयणेऽपि न दोषः । नित्यो नित्यानामित्यत्र नित्यानामिति पदच्छेद एवं भगवद्भाष्यकारदर्शितः । तथैव च