पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१५९

एतत् पृष्ठम् परिष्कृतम् अस्ति

६४ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ. ६. तत् कारणं सांख्ययोगाधिगम्यं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥१३॥ न तत्र सूर्यों भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः। तमेव भान्तमनु भाति सर्वं तस्य भासा सर्वमिदं विभाति ॥१४॥ एको हँसो भुवनस्यास्य मध्ये स एवाग्निः सलिले संनिविष्टः। तमेव विदित्वाऽति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय ।।१५॥ स विश्वकृत विश्वविदात्मयोनिर्ज्ञ कालकाली गुणी सर्वविद्यः । नित्यत्वचेतनत्वतारतम्यञ्च विवक्षाविशेषेण द्रष्टव्यम् । सांख्ययोगाधिगम्यं सांख्ययोगशास्त्रयोः तात्पर्यविषयभूतम् । 'सांख्यं योगः पाश्चरात्रं वेदाः पाशुपतं तथा । आत्मप्रमाणान्येतानी ' त्युक्तरिति भावः । (१३) न तत्रेति । अयं मन्त्रोऽन्यत्र बहुकृत्वो व्याकृतः । (१४) एक इति । भुवनस्य चिदचित्प्रपञ्चस्य मध्ये, पक्षिसंघे राजहंसवत् विराजमानः । 'यमन्तस्समुद्रे कवयो वदन्ती ति समुद्रसलिलसंनिविष्टः । स एवाग्निः अग्रनेता मोक्षप्रदः संसारपाशदाहक इति वाऽर्थः । शिष्टं स्पष्टम् । स विश्वेति । विश्वकृत् सर्वकर्ता, विश्ववित् सर्वं प्राप्तः,-विदिर्लाभः इति हि धातुः-आत्मयोनिः-आत्मा योनिः स्थानं यस्य स तथोक्तः । जीवान्तर्यामीत्यर्थः, ज्ञः सर्वज्ञः, कालकालः कालस्यापि नियन्ता, स विद्यः सर्वविद्याप्रवर्तकः, " कठोपनिषदि एषां व्याख्यानमपि । इह तु, स नो दद्यात् ब्रह्माप्ययमिति जीवानामप्य- यस्योक्तत्वात् किश्चिद्रूपेण अनित्यत्वस्य जीवेषु वर्णनसंभवात् पराभिमतस्य अनित्यानामिति पदविभागस्य स्वीकारेऽपि नातीव हानिरिति व्युत्पादनाय प्रकारान्तरेण व्याख्यानमिति ध्येयम् । सांख्ययोगाधिगम्यम् ज्ञानयोगकर्मयोगाभ्यामधिगम्यमित्यप्यर्थः स्यात् | 'सांख्ययोगौ पृथग्बालाः' इत्यादी गीतासु तथा प्रसिद्धेः।। (१३) न तत्र सूर्य इति मन्त्रः कठवल्ल्यां मुण्डके च श्रूयते। (१४)