पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१६

एतत् पृष्ठम् परिष्कृतम् अस्ति

13

प्रागादौ दिश्यथोर्ध्वं प्रततरविकराकृष्टपञ्चामृताढ्यं
तिर्यम्वशे द्युलोकात्मनि मधु विलसस्यन्तरिक्षे त्वपुषे ।
मन्त्रैः ऋग्वेदपुष्पस्थितरसवदबुद्धावितः कीर्तिमुख्यो
ऋग्नि: प्राग्रश्मिनाख्या रस इह विततो रोहितं रूपमस्य ॥ ६१

एवं शुक्लं यजुष्टो यजुरधिगमितः सामतः कृष्णरूपं
सारोऽथर्वाङ्गिरोनिर्विहित इह परॐ कृष्णरूपं पुराणात् ।
गुह्यादेशैश्च, मध्ये तरलमिव यदस्येष स ब्रह्मपुष्पात्
यत् तत् वस्वादयोऽग्निप्रमुखमुखयुता भुञ्जते रोहिताद्यम् ॥ ६२

उद्यन् अस्तञ्च गच्छन् य इह मधु भवत्येष आदित्यः एष
त्यक्तावस्थोऽथ भायात् निरुदयविलयश्चैनमादित्यमेवम् ।
श्रीमन्! देवादयोsपि श्रितवृषशिखर ! त्वन्मयं भावयन्तो
वस्वादिस्थानभाजो विलयविरहितां यान्ति मुक्तिं क्रमेण ॥ ६३

व्याप्त्या भूत्योर्ननोवद्धर्युपधिपरिमितः पूर्ण एवाप्रवर्ती
गायत्रीवत् चतुष्पात् त्वमसि मतिपदं श्रीनिधे ! षड़िधश्च ।
भूतं पृथं शरीरं हृदिति चरणभाक् गानसंत्राणकारी
भूतप्राणप्रतिष्ठा तदिह निगदितो नातिवर्त्यश्च ताभ्याम् ॥ ६४

मुक्त्यर्थाया अमुष्या गुण इद्धि विहिता पञ्चहृच्छिद्रनेतृ
स्वर्गद्वाराधिपत्वत्पुरुषमति, इमामाश्रिता दृष्टयोऽन्याः ।
एवं ज्योतिष्युदर्थे वृषशिखरिपते ! द्युस्थितज्योतिरात्म
त्वद्रीपे ध्यातदृष्टिश्रुतिरपि लभते कान्तिकीर्त्यज्ज्वलत्वम् ॥ ६५

मानोमज्यादिधर्मा हृदयपरिमिते ब्रह्म मे ह्यन्तरात्मा
प्राप्तास्म्येतं परेत्य ध्रुवमिति निपुणाभ्यस्तशाण्डिल्यविद्यः ।
श्रीमन्! स्वाधीनसर्वात्मक ! भवति तथा, सत्यसंकल्पतायाः
सर्वेशत्वादिरिष्टा विततिरिह ततो वर्ण्यसे वाजिभिर्द्रिः ॥ ६६