पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१६०

एतत् पृष्ठम् परिष्कृतम् अस्ति

अ. ६.] श्वेताश्वतरोपनिषत् प्रधानक्षेत्रज्ञपतिर्गुणेशः संसारमोक्षस्थितिबन्धहेतुः ।। १६ ।। स तन्मयो ह्यमृत ईशसंस्थो ज्ञः सर्वगो भुवनस्यास्य गोप्ता । य इशेऽस्य जगतो नित्यमेव नान्यो हेतुर्विद्यत ईशनाय ॥१७।। यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै । तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ।। १८ ॥ प्रधानक्षेत्रज्ञपतिः प्रकृतिजीवयोः शेषी . गुणेशः ज्ञानादिपाङ्गुण्यपरिपूर्णः , संसारस्य प्रकृतिसंबन्धलक्षणस्य मोक्षे च तत्स्थितौ च हेतुरित्यर्थः । स तन्मय इति । सः परमात्मा तन्मयः तत्प्रचुरः । तदात्मक एवं ; नान्यामकः । अनन्यप्रेर्य इति यावत् । अमृतः असंसारी । ईशे ईशनव्यापारे सम्यक् स्थितिर्यस्येति तथोक्तः। य ईशे यो नित्यमीष्टे । यस्य चेशनमनन्यहेतुकं नित्यम् । मोक्षदशायामप्यनपायीत्यर्थः । शिष्टं स्पष्टम् । (१७) पुरुषान्न परं किश्चित् सा काष्ठा सा परा गतिः' इति वशीकार्यपरम्परा- विश्रान्तिभूमिभूतभगवद्वशीकरणोपायभूतप्रपदनमन्त्रमाह यो ब्रह्माणमिति । यः स्वनाभिपद्मे ब्रह्माणमुत्पाद्य तस्य वेदप्रदानेन जगत्सर्गशक्तिमाहितवान् , तं स्वविषयबुद्धिपकाशहेतुं मुमुक्षुरहं शरणं प्रपद्य इत्यर्थः । आत्मबुद्धेः प्रकाशो यस्मात् स आत्मबुद्धिप्रकाशः । तद्विषयबुद्धिस्फुरणस्य तदनुग्रहायत्तत्वादित्यर्थः । (१८) संसारमोक्षस्थितिबन्धहेतुरिति । संसारेतिपदं स्थितावन्यन्वेतीत्याशयेन संसारस्येति संबन्धसामान्यषष्टीविग्रहादरणम् । अर्थस्तु संसारान्मोक्षे, संसारस्थितिरूपे सर्गकालिकावस्थाने, प्रलयसाधारणे बन्धे च हेतुरिति ! (१६) तन्मय इत्यत्र च्छन्दः स इत्युक्तपरामशी भवतु अत्यन्तसंनिहितत्वादित्यभिसंधायाह तदात्मक एवेत । व्यवहितग्रहणेष्टौ तु प्रधानक्षेत्रज्ञमय इत्येवं रीत्याऽपि व्याख्यानं भवति । (11) भकत्या भगवतः प्राप्यत्वमेतावदुक्तम् । प्रपत्त्याऽपि प्राप्योऽयमिति रहस्योपदेशः क्रियते यो ब्रह्माणमिति । प्रपदनमन्त्रमिति । मन्त्ररन्नवत् अस्यापि प्रपद्ये इति वर्तमानापदेशघटितत्वात् प्रपदने करणमन्त्रत्यम् । भक्त्यङ्गस्वतन्त्रोभयविध प्रपत्तिपरमिदमविशेषादिति स्तोत्रभाष्यादितो ज्ञेयम् | आत्मबुद्धिप्रकाशमिति पदेन मधुकैटभापहृतवेदपुनरर्पणविहितोऽनुग्रहोऽपि सूच्यते । (१८) 8