पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१६१

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ.६. निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् । अमृतस्य परं सेतुं दग्धेन्धनमिवानलम् ॥ १९ ॥ यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः । तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति ॥ २० ॥ तपःप्रभावाद् देवप्रसादाच्च ब्रह्म ह श्वेताश्वतरोऽथ विद्वान् । अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषिसंघजुष्टम् ॥ २१ ॥ उक्तब्रह्मज्ञानाभावे मोक्षसंभावनैव नास्तीत्याह निष्कळमिति मन्त्रद्रयेन । आकाशस्य चर्मकटादिवत् वेष्टनं यदा अल्पशक्तयो मनुष्याः करिष्यन्ति , तदा निष्कलं निरवयं निष्क्रियं कृतकृत्यं शान्तम् अशनायाद्यूर्मिषट्करहितं निरवद्यम् आश्रितपराङ्मुखत्वाद्यवद्यरहितं निरञ्जनम् असङ्गस्वभावम् अमृतस्य मोक्षस्य परं मुख्यं सेतुं दग्धेन्धनानलवत् स्वप्रकाशकं देवमविज्ञाय दुःखस्य नाशो भवति । यथा आकाशस्य चर्मवत् वेष्टनमसंभावितम् , एवं परमात्मज्ञानमन्तरेण मोक्षोऽसंभावित इत्यर्थः । (१०+२०) तप इति । - मनसश्चेन्द्रियाणाञ्च ऐकाग्र्यं परमं तपः' इत्युक्तचित्तैकाग्र्यलक्षणतपःप्रभावाच्च [त् परमात्मानुग्रहाच्च ? ] संपन्नब्रह्मविज्ञानः श्वेताश्वतरनामा ऋषिः अत्याश्रमिभ्यः--अति पूजायाम् -- पूज्याश्रमयुक्तेभ्यः परमहंससंन्यासिभ्यः, ऋषिसंघैः वामदेवादिभिः जुष्टं सेवितं परमं पवित्रं ब्रह्म प्रोवाचेत्यर्थः । (२१) . यथा भक्त्यभावेऽपि प्रपत्तिवशान्मुक्तिराधिकारविशेषे, तथा तदभावेऽपि ज्ञानात्मकोपायनिरपेक्ष एव केभ्यश्चित् स मुक्तिप्रदः स्यात् ; अन्यतोऽपि वा मुक्तिः स्यादिति कश्चिन्मन्येत | तन्निरसनाय निष्कलमित्यादिमन्त्रद्वयम् । अत्याश्रमिभ्य इत्यस्य अतिशयिताश्रमशालिभ्य इत्यर्थः । - अनाश्रमी न तिष्टेत्तु क्षणमेकमपि द्विजः' इति अनाश्रमावस्थानस्य निषिद्धतया तादृशानामुत्तमपात्रतया ग्रहणायोगा- दित्याशयेन अति पूजायामित्युक्तम् । (२१)