पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१६२

एतत् पृष्ठम् परिष्कृतम् अस्ति

म. ६.) श्वेताश्वतरोपनिषत् 1 वेदान्ते परमं गुह्यं पुगकम्प प्रचोदितम् । नाप्रशान्ताय दातव्यं नापुत्रायाशिष्याय वा पुनः ॥ २२ ॥ यस्य देवे परा भक्तिः यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ।। प्रकाशन्ते महात्मनः इति ॥ {! ओं 'पूर्णमदः, 'भद्रं कर्णेभिः,' 'सह नाववतु ' इति शान्तिः ।। । इति श्वेताश्वतरोपनिदि षष्ठोऽध्यायः । ॥ इति श्वेताश्वतरोपनिषत् ॥ शुभमस्तु वेदान्त इति । वेदान्तेष्वतिरहस्यतया निगूढ पुराकल्पे ब्रह्मणे उपदिष्टमेतत् विज्ञान शान्तेभ्यः पुत्रेभ्यः शिष्येन एवं प्रबूयात् ; नान्येभ्यः इत्यर्थः । (२२) भगवद्विषये गुरुविषये च उत्कृष्टभक्तिशून्यानाम् उक्तार्था उपदिष्ट! अपि दुर्ज्ञाना इत्याह यस्य देव इति । यस्य भगवत्युत्कृष्टा भक्तिः, तत्तुल्या गुरावपि भक्तिः, तस्यैव महात्मन एते अर्था भासन्ते ; नेतरेषाभित्यर्थः । द्विरुक्तिरध्यायसमाप्त्यर्था [आदरार्था च]। एतदध्यायान्तर्गतवाक्यविषयमधिकरणं लिख्यते- तृतीयाध्याये उभयलिङ्गपादे वेदान्ते जगत्कारणतया प्रतिपाद्यमानस्यात्मनः , अथ य आत्मा स सेतुर्विधृति ' रिति सेतुत्वश्रवणात् सेतोश्च प्राप्यान्तरप्रापकत्वस्यैव दर्शनेन ब्रह्मणोऽपि प्राप्यान्तरप्रापकतैव [प्रतीयते ] न तु स्वयं प्राप्यता । किञ्च - एतं सेतुं तीर्त्वेति तरितव्यत्वाभिधानेन एतस्य प्राप्यत्वाभावाविष्करणात् मूले हीति एवार्थे । तेन तस्मैवेत्यर्थलामः । एतदनुसारेण व्यतिरेकमुखनावतरणं कृतम् । कथिता. इत्यस्य अनोपनिषदि उक्ता इत्यर्थः । अकथिताः साक्षादाचार्यानुक्ता अपीत्यर्थोपि. अत्रोच्यते। - --