पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१६३

एतत् पृष्ठम् परिष्कृतम् अस्ति

, . 6 1 6 -- श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ. ६. वेदान्तेषु, 'चतुष्पात् ब्रह्म षोडशकलम् । इत्युन्मानश्रवणात् नेदमपरिमितम् , अपरिमितस्योन्मानासंभवात् । अतो वेदान्तेषु अपरिमितत्वेन प्रतीयमानमन्यदेवेति प्रतीयते । किञ्च - 'अमृतस्य परं सेतु' मिति अमृतस्य वस्त्वन्तरस्य प्राप्यप्राप्यकत्वलक्षणः संबन्धः षष्ठया प्रतीयते । न हि स्वस्मिन्नेव प्राप्यप्रापकत्वलक्षण: संबन्धः संभवति । किञ्च 'तेनेदं पूर्ण पुरुषेण सर्वमिति प्रतिपादितपुरुषादपि, ततो यदुत्तरतरम् ' इत्यधिकम्य निर्देशात् परस्मादपि ब्रह्मणः परमन्यत् व्यपदिश्यते । अत एभ्यो हेतुभ्यः परस्मादपि ब्रह्मणः अन्यत् परमभ्युपगन्तव्यमिति , "परमतः सेतूमानसंबन्धभेदव्यपदेशेभ्यः " इति सूत्रेण पूर्वपक्षे प्राप्ते उच्यते .. सामान्यात्तु " । 'य आत्मा सेतु रिति व्यपदेशः, एषां लोकानामसंभेदाये । ति वाक्यशेषश्रुतासंकरकारित्वलक्षणधर्मसामान्यनिबन्धनः ; न तु प्राप्यान्तरमापकत्वलक्षणधर्मनिबन्धन । 'एतं सेतुं तीर्त्वे : त्यत्र तरतिश्च प्राप्तिवचनः, वेदान्तं तरतीतिवत् ; नोल्लङ्घनवचनः । यदुक्तमुन्मानव्यपदेशादस्य परिमितत्वं प्रतीयत इति, तत्राह, “बुध्द्यर्थः पादवत्' । यथा - मनो ब्रह्मेत्युपासीतेत्यध्यात्मम्', 'तदेतच्चतुष्पाद् ब्रह्म वाक् पादः प्राणः पादः चक्षुः पादः श्रोत्रं पादः इत्यध्यात्मम् ' इत्यत्र ब्रह्मपतीकभूतमनआदौ वागादिपादत्वव्यपदेश उपासनार्थः । न तु तात्त्विकः : मनसो वागादिपादत्वासंभवात् एवमपरिन्छिन्नस्य ब्रह्मणः , 'प्राची दिक् कला प्रतीची दिक् कला दक्षिता दिक् कला उदीची दिक् कला। एष वै सोम्य चतुष्कल: पादो ब्रह्मणः प्रकाशवान् नामे'त्युक्तदिगादिलक्षणचतुष्कलपादसंबन्धासंभवादुपासनार्थ एव । षोडशकलमिनि । नेदं तं पदम् । किंतु सत्यकामं प्रत्युपदिश्यां षोडशकलब्रह्म विद्यायां चतुरः पादात् प्रदर्श्य प्रतिपाद चतुष्कलत्वमुक्तमिति अर्थसिद्ध कथनमेतत् । वस्त्वन्तरस्येति । वस्त्वन्तरं प्रतीयर्थः । मनसो वागादिपादत्वासंभवादिनि । निखिलजगत्कारणस्य ब्रह्मणो वागादिमात्रपादायोगात् इदं चतुष्यात्वं तस्य नूननुपासनार्थमिति निश्चितम् , तथैव षोडशकलस्थलेपीति भाष्यादितो ज्ञायत । अत्र तु मनो ब्रह्मत्युपासीतेति वाक्ये ब्रह्माणीव मनस्यपि चतुष्पात्त्वं न वास्तवम् , किंतु उपासनार्थं कल्पितमित्यधिकमुक्तमिति ध्येयम् ।