पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१६४

एतत् पृष्ठम् परिष्कृतम् अस्ति

अ.६.] श्वेताश्वतरोपनिषत् ननु सयमनुन्मितस्य कथमुपासनार्थतयाऽप्युन्मानप्रतीतिः? ततद्राह, “स्थानविशेषात् प्रकाशादिवत्"। यथा प्रकाशाकाशादेरपरिच्छिन्नस्यापि वातायनाद्युपाधिवशेन परिच्छन्नत्वानुन्धानम् , एवमिहापि अभिव्यक्तिस्थानभूतप्रा(वा ?)गाद्युाधिवशेन उन्मितत्यानुसधानमुपपद्यते । यदुक्तम् , अमृतस्य परं सेतु मिति संबन्धव्यपदेशेन अमृताद् भेदोऽवगम्यत इति । तत्राह, “ उपपत्तेश्च " । ' यमेवैष वृणुते तेन लभ्यः' इति 'स्वप्राप्तेः स्वयमेव मानतया जोधुप्यमाणे ' ब्रह्मणि स्वेनैव प्राप्यप्रापकत्वलक्षणसंबन्धव्यपदेशस्यापि नान्वपत्तिः । यदुक्तम् 'ततो यदुतरतर' मिति अधिकं वस्तु प्रतिपाद्यत इति, तत्राह, " तथाऽन्यप्रतिषेधात्' 'यस्मात् परं नापरमस्ती ' ति तदतिरिक्तोत्कृष्ट वस्तुनो निषेधेन विरुद्धतया , ' ततो यदुत्तरतर ' मिति वाक्ये तदधिकवस्तूपक्षेपासंभवात् , ततो यदुतरतर मित्येतत् पूर्वो ।(पूर्वप्रति) पादितस्य पुरुषपारम्यस्य उपरि उपसंहार- रूपम् । एतच्च पूर्वत्र तन्मन्वव्याख्यायां स्पष्टीकृतम् । वतायनादीति प्रकाशस्य वतायनेन परिच्छिन्नत्वम् , आकाशस्य च घटादिना । अभिव्यक्तिस्थानभूतवागाद्युपाधीति पाठो युक्तः ; न तु प्रागादीति । श्रुतप्रकाशिकायाम् , दृष्टान्तभूतवागादिविषयभिदं सूत्रम्" इत्युक्त्वात् । षोडशकलत्वादिकं ब्रह्मणि उपासनार्थमुक्तम् . वागादिपादवदित्युक्तं कथमुपपद्यते, अनुन्मिने वागादिपादोन्मानस्याप्ययोगादिति शङ्कापरिहारर्थं सूत्रमिति तदर्थः । यमेवैष । ननु यमेवैष इति वाक्यं निरतिशयप्रीतिरूपापन्नध्यानलभ्यत्वस्य ब्रह्मणि बोधनामिति जिज्ञासाधिकरणाय स्पष्टमिति कथमत्रानन्यो पायत्वमनेन बोध्यत इत्युच्यत इति चेन्न - तृतीयपादेन प्रीतिरूपामापन्नभक्तिलभ्यत्वमुक्तम् . यमवेति एवकारेण वृतेनैव लभ्य इति कथनात् वरणाभावे अलभ्य इति ज्ञापनात् वरणकारणजिज्ञासायां प्रियतमत्वस्य वरणहेतुताया आनुभविकत्वात् नियतमत्वं प्रति प्रीणतिशयमाक्त्वं हेतुरित्यस्य गीतत्वाच्च प्रीतिरूपापन्नध्यानलाभात् । एवमपि प्रापकस्याम्यैव प्राप्यत्वमपि लभ्य इति पदेन दर्शितमेव । स्पष्टीकृतश्चेदं चतुर्थपादेन 'तस्यैष आत्मा विवृणुते तनुंस्वाम्' इत्यनेनेत्याशयात् ।