पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१६५

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ. ६. , . - "अनेन सर्वगतत्वमायामशब्दादिभ्यः" । अनेन ब्राह्मणा सर्वगतत्व सर्वस्य जगतो व्याप्तत्वम् आयामशब्दादिभ्योऽवगम्यते । आयामशब्दस्तान् 'तेनेदं पूर्णं पुरुषेण सर्वम् ', 'अन्तर्बहिश्च तत् सर्वं व्याप्य नारायणः स्थितः ' इत्यादि । आदिशब्देन, ब्रह्मैवेदं सर्वम् ' इत्यादयो गृह्यन्ते । अतो न परब्रह्मणेऽन्यत्र प्राप्यमस्तीति स्थितम् ।। अस्याश्चोपनिषदः कृत्स्नाया भगवत्परत्वं सर्वव्याख्यानाधिकरणे व्यासार्यै: समर्थितम् । तदुच्यते । प्रथमद्वितीयखण्डयो , देवात्मशक्तिम् , व्यक्ताव्यक्तं भरते विश्वमीशः, यदात्मतत्त्वेन तु ब्रह्मतत्त्वम् , ज्ञात्वा देवर, एष हि देवः प्रदिशोऽनु सर्वाः इति देवात्मेशब्रह्मशब्दैः परमात्मा निर्दिश्यते । ते च शब्दाः अपहतपाप्मा दिव्यो देव एको नारायणः', 'विश्वं नारायणं देवम् ', आत्मा नारायणः परः', ' अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठञ्च समाश्रितः । देशः सर्वस्य जगतः' , 'येनाक्षरं पुरुष वेद सत्यं प्रोवाच तां तत्वतो ब्रह्मविद्याम् इत्यादिवाक्यगतनारायणप्रत्यभिज्ञापकाः । अत्रेशशब्दश्च न रूढ्य। प्रयुक्तः । अपितु गुणयोगात् । 'अनीशश्वात्मा,' 'ज्ञाज्ञौ द्वावजावीशनीशौ', 'ईशः सर्वस्य' इति निर्देशस्य सप्रतिसंबन्धितया अवयव( वार्थ ? )विवक्षाज्ञापकत्वात् । अनन्तश्चात्मा विश्वरूपो ह्यकर्ता इत्यत्रानन्तशब्दो योगरूढः । रूढ्यविवक्षानिमित्तसप्रतियोगिकनिर्देशाभावात् । तृतीये च खण्डे , य एतद्विदुरमृतास्ते भवन्तीत्यनेन, 'अम्मस्यपार' इत्यनुवाकः प्रत्यभिज्ञाप्यते । स हि परमपुरुषविषयः । एवमुपक्रमो भगक्परः। एको हि रुद्र इत्यस्यानन्तरम् , विश्वतश्चक्षुरुत विश्वतोमुख इति मन्त्रश्च भगक्प्रत्यभिज्ञापकः । तस्य विद्युद्वर्णपुरुषविषयत्वात् । द्यावाभूमी जनयन् देव एकः हति 6 . सर्वव्याख्यानाधिकरमटीकायामस्या अप्युपनिषदो भगवत्परत्वस्थापन रुद्रपरत्वभ्रमन्युदासाय जिज्ञासुशिक्षणसौकर्याय प्रायः शब्दत एवानुवदितमारभते अस्याश्चेति ।