पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१६६

एतत् पृष्ठम् परिष्कृतम् अस्ति

म. ६.] श्वेताश्वतरोपनिषत् ७१ . 1 च, 'शीर्ष्णों द्यौः सघर्तत, पद्भ्यां भूमिः' इत्यस्य प्रत्यभिज्ञापकम् । यो देवानां प्रभवश्वोद्भवश्च विश्वधिको रुद्रो महर्पिः । हिरण्यगर्भ जनयामास पूर्वम् इत्येतत्तु यच्छन्दयोगादत्वादरूपतया प्रमाणान्तरसापेक्षतया दुर्बलम् । इदं रुद्रस्य बह्णृचशतपथब्राह्मणावगतक्षिण्यगर्भजन्यत्वविरोधि हिरण्यगर्भजनकत्वं न प्रतिपादयितुं प्रभवति । बह्णृचे , 'दिदास भुक्नेषु ज्येष्ठं यतो जज्ञे उग्रस्त्वेष नृग्णः । सद्यो जज्ञानो निरिणाति शत्रून् इति हिरण्यगर्भस्रष्टृत्वं रुद्रशब्दरुढ्यर्थस्य प्रतिपाद्यते । सुबालोपनिषदि, ललाटात् क्रोधजो रुद्रः' इति नारायदुत्पन्नत्वं प्रतीयते; महोपनिषदि, सोऽन्यं कामं मनसा ध्यायीत त्र्यक्षः शूलपाणिः पुरुषोऽजायत' इति । नारायणोपनिषदि, नारायणाद्रुदो जायते' इति । बृहदारण्यके , 'ब्रह्म वा इद ' पिति ब्रह्म प्रस्तुत्य, इन्द्रो वरुणः सोमो रुद्रः पर्जन्यः ' इतीन्द्रादितुल्यतया रुद्रस्यापि ब्रह्मणः सकाशादुत्पत्तिः प्रतिपद्यते । शतपथे अष्टमूर्तिब्राह्मणे, 'भूतानां च प्रजापतिः संवत्सरमुषसि रेतोऽसिञ्चत् । संवत्सरे कुमारोऽजायत । सोऽरोदीत् । तं प्रजापतिरब्रवीत् , कुमार ! किं रोदिषीति । सोऽब्रवीत् , अनपहतपाप्मा वा अहमस्मीति अनाहितनामा; नाम मे धेहि पाप्मनोऽपहत्या इति । ते पुनः प्रजापतिरब्रवीत् , रुद्रोऽसीति । इत्यादिना रुद्रस्य चतुर्मुग्वजन्यत्वम् अनाहतपाप्मत्वादिकमावेद्यते । तथा शैलालिब्राह्मणे चतुर्मुखसृष्टत्वं रुद्रस्य प्रतिपाद्यते । साम्नि च ' विरुपाक्षाय दन्ताञ्जये (दत्ताञ्जलये) ब्रह्मणः पुत्राय ' इति ब्रह्मणः पुत्रत्वं प्रतीयते। 'सोऽब्रवीत। वरं वृणै। अहमेव पशुनामधिपतिरसानीति। तस्माद्रुदः पशुनामधिपतिः ' इति वरदानलब्धपशुपतिभावः श्रूयते, विष्णोरेवा(पा)ऽस्य प्रभृधे हविर्भिः । विधेहि रुद्रियं महत्त्वम् ' इति विष्ण्वाराधनलब्धमहिमत्वं रुद्रस्य श्रूयते । अतो हिरण्यगर्भजन्यत्वेन नारायणजन्यत्वेन च अनपहत पाप्मत्वेन कर्माधीनैश्चर्यवत्त्वेन च श्रुतस्य रुद्रस्य तद्विरुद्धहिरण्यगर्भजनकत्वस्य अवताररूपोत्पत्तिरिति विरोधपरिहारस्य . ' विरोधपरिहारस्य वा असंभवादित्यादि न प्रतिपादयितुं प्रभवति इति प्रागुक्तं प्रति हेतुः । मध्ये बह्णृचे इत्यारुभ्य, श्रूयते । अतः ' इत्यन्तेन तत्र हेतुरुक्तः । बह्वृचादौ एवमेवंश्रवणादिति तदर्थः ।