पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१६७

एतत् पृष्ठम् परिष्कृतम् अस्ति

७२ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [ अ. ६. वा असंभवात् । कल्पभेदेन एकस्यैव रुद्रस्य हिरण्यगर्भपात् स्वस्मादुत्पतिः, कल्पान्तरे रुद्ररूपात् तस्मात् हिरण्यगर्भरूपतयात्पत्तिरिति ल्यनस्यापि , कार्यत्वेन कर्मवश्यत्वेन [च?) प्रतिपादिते तस्मिन्नसंभवात् । इन्द्रादीनामपि तथात्वापाताच्च । तस्य विश्वाधिकत्वरूपविशेषणासंभवाच्च । ततश्च रुद्रशब्दस्य कार्यरुद्रव्यतिरिक्तविषयत्वे सति, अस्य वाक्यस्यानुवादरूपतया , 'नारायणाद् ब्रह्मा जायते' इत्यादियोग्यार्थप्रापकवाक्यानुगुण्येन भगवत्परत्वनिश्चयः । 'रुद्रस्य हिरण्यगर्भजनकत्त्वाभावेन रूढ्यर्थत्यागे स्वीकार्ये हिरण्यगर्भशब्दस्य रूढिं परित्यक्त्य स्कन्द परत्वमाश्रीयताम् । प्रसिद्धस्य रुद्रस्य स्कन्दजनकत्वसंभवान् ' इत्यपि शङ्का निता; विश्वाधिकत्वादिविशेषणानां रुद्रे असंभवात् । अतो रुद्रशब्दो भगवत्यः । रुद्रो बहुशिराः' इति सहस्रनामपाठात् । या ते रुद्र शिवा तनूरित्यस्यानन्तरम् , बतः परं ब्रह्म परं बृहन्तमिति वाक्यम् , 'नारायणः परं ब्रह्मेति महोपनिषत्प्रत्यभिज्ञपकम् । ईशं तं ज्ञात्वा अमृता भवन्तीत्यत्र ईशशब्दः पूर्ववत यौगिकः । वैरूप्यायोगात् । 'वेदाह मित्यनन्तरवाक्यस्थैतच्छब्दः पूर्वरुद्रशब्दवाच्यस्य महापुरुषत्वमवगमयति । प्रकृतपरामर्शित्वात् । ततो यदुत्तरतरमिति वाक्यमपि , “परमतः सेतून्माने " त्यत्रोपपादितरीत्या प्रकृतोपसंहारपरम् । सर्वाननशिरोग्रीवत्वञ्च पुंसूक्तार्थस्मारकम् । सर्वव्यापिपदं तु, 'व्याप्य नारायणः । इत्येतत् स्मारयति । भगवच्छब्दस्तु, ' भगवान् पवित्रं वानुदेवः पवित्रम्', 'परं पवित्र भगवान् वासुदेवः', 'ये भगवन्तं वासुदेवमेवं विदुः' इति वासुदेवासाधारणः । अत एव हि स्मर्यते, 'एकमेष महाशब्दो मैत्रेय भगवानिति । परमब्रह्मभूतस्य वासुदेवस्य नान्यगः इति । सत्त्वस्यैष प्रवर्तकः इति सत्त्वप्रवर्तकत्वञ्च भगवत इति स्थितम् ; 'यो ह खलु वा अस्य सात्विकोंशः सोऽसौ ब्रह्मचारिणः योयं विष्णुः । इति मैत्रायणीयश्रुतेः । अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मेति अन्तररात्मत्वच्च सुबालोपनिषत्प्रत्यभिज्ञापकम् । हृदा मनीषेति तु विद्युद्वर्णपुरूषस्मारकम् । अनन्तरम् , सहस्रशीर्षेत्यादिपुरुषसूक्तमन्त्रद्वयमधीतम् । सर्वस्य प्रभुमीशान- ..