पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१६८

एतत् पृष्ठम् परिष्कृतम् अस्ति

अ. ६.] श्वेताश्वतरोपनिषत् मित्येतत् नपुंसकत्वात् यौगिकमेव । न तु रूढम् ; पुल्लिताप्रसङ्गात् । सर्वस्य शरणं सुहृत् इत्येतत्तु , 'निवासः शरणं सुहृद् गतिर्नारायणः' इति श्रुतिप्रत्यभिज्ञापकम् । तमाहुरग्र्यं पुरुषं महान्तमिति महापुरुष एव स्वष्टमुक्तः। धातृशब्दमपि महापुरुषशब्देनैकार्थयति अणोरणीयानिति मन्त्रः । 6 . चतुर्थे च खण्डे , 'द्वा सुपर्णा' इत्यादिवाक्यद्वयम् मुण्डकोपनिषदैकार्थ्यात् परमपुरुषपरम् । अतः मायिनं तु महेश्वरमित्यत्र महेश्वरशब्दो मायाप्रेरकत्वपरः । 'सर्वलोकमहेश्वरम् ', 'क्षीरोदस्योत्तरे तीरे जग्मुर्लोकहितार्थिनः ' इत्यारभ्य, 'ततः स्वस्थो महेश्वरः' इत्यादिषु महेश्वरशब्दो भगवति प्रयुक्तः । येनेदं सं च वि चैति सर्वमिति प्रकृतं सर्वस्य नियन्तृत्वमेव तमीशानं वरदमित्यत्रोच्यते । पूर्वम् अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मे ' ति पुरुषस्योक्तत्वात् । तत्र च , ईशानो भूतभव्यस्ये' ति अत्यन्तरप्रसिद्धेशानशब्दस्य प्रतिसंबन्ध्यभिधानेन रूढिविरहावगमात् भूतभव्यशब्दनिर्दिष्टस्यैवेह सर्वशब्दप्रतिपन्नत्वाच्च तद्वदेव रूढिविरहः सिद्धः । य ईशेऽस्य द्विपदश्चतुष्पदः त (क?)स्मै देवाय हविषा विधेम ' इत्यत्र , हिरण्यगर्भ' इत्यष्टर्चतुल्यविषयत्वं प्रतीयते । तच्च भगवत्परमित्युपपादितम् एवं भगवत्परानेकोपनिषदैकार्थ्यप्रतीतेः, ज्ञात्वा शिवम् , शिव एव केवलः इति शिवशब्दद्वयं तत्परम् । एवं मुहुरभ्यस्यमानस्यापि शिवशब्दस्य, 'आकाशं प्रत्यस्तै यन्ति, आकाशो ह्येवैभ्यो ज्यायान् । इत्यत्र अभ्यस्ताकाश [शब्द ?] स्येव रूढार्थत्याग उपपन्नः । किञ्च सर्वव्यापी च भगवान् तस्मात् सर्वगतः शिवः इत्यय शिवशब्दः प्राकरणिकशिवशब्दानां माङ्गल्यपरत्वमेव सूचयति । सर्वगतत्वेऽपि भगवच्छन्दवाच्यत्वात् निर्दोष इति हि तस्य वाक्यस्यार्थः । अन्यथा सर्वव्यापिसर्वगतपदयोः पुनरुक्तिप्रसङ्गात् । तदक्षरं तत् सवितुर्वरेण्यम् इत्यनेन ‘अक्षरं प्रभुम् , ' तत्सवितुर्वरेण्यं ध्रुवमचलममृतं विष्णुसंज्ञं सर्वाधारं धामे तिश्रुतिद्वयैकार्थ्यमवगम्यते । हृदा मनीषेति वाक्यम् , ' नैनमूर्ध्वं न तिर्यञ्च' मिति मन्त्रद्वयम- 10 . - .. - 1