पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१६९

एतत् पृष्ठम् परिष्कृतम् अस्ति

७४ v श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ. ६. ध्यगतवाक्यस्थशिवशब्दस्य परमपुरुषविषयतां गमयति । तद्धि त्रयं समुद्रान्तर्वर्तिविद्युद्वर्णपुरुषविषयम् । अतः , ‘मा नस्तोक ' इति मन्त्रस्थरुद्रशब्दोऽप्यवयव- शक्त्या अपर्यवसानवृत्त्या वा भगवद्विषयः । [अतः ?] पञ्चमखण्डे , भावाभावकरं शिव ' मिति शिवशब्दो व्याख्यातः। षष्ठे च यः कालकालः इति कालस्यापि परिच्छेदकः काल उक्तः । नायमन्तकः । भगेशमित्यनेनापि भगवच्छब्दवाच्यानामैश्वर्यादीनां षण्णामीश्वर- त्वमेव प्रतीयते। ऐश्वर्यनिरङ्कुशत्वमेवोक्तम् , तमीश्वराणां परमं महेश्वरमिति । ईश्वराणामिति प्रतिसंबन्धिनिर्देशात् महेश्वरपदे रूढिर्न शक्यशङ्का । देवतानां परमं च दैवतमित्यनन्तरनिर्देशवत् । तद्धि वाक्यं देवतापारम्यपरम् । तत्र च दैवतपति शब्दौ न क्वचित् देवताविशेष रूढौ। तत्स्थानीयश्च महेश्वरशब्दः । अतो न रूढयुन्मेषः । न तत्समश्च , पराऽस्य शक्ति.रित्यादिभिश्च तत्पारम्योपपादनम् । 'एको देवः , ‘एको नारायणः ' इत्यनेनैकार्थ्यात् । न तत्र सूर्यो भातीति मन्त्रश्च कठवल्लयधीतत्वात् विष्णोः प्रत्यभिज्ञापकः । नान्यः पन्था इति, पुंसूक्तं स्मारयति । ईशादिशब्दानां यौगिकत्वम् , ईशानत्वस्य निरुपाधिकत्वञ्च दर्शयति स ईशोऽस्येति । यो ब्रह्माणं विदधाति पूर्वम् , शरणं प्रपद्ये, अमृतस्य परं सेतुमिति निर्देशाश्च नारायणत्वसाधकाः । य इत्यनुवादरूपत्वात् ; ब्रह्मणो भगवन्नाभिसंभव [त्व] स्य प्रमाणप्रतिपन्नत्वात् ; 'निवासः शरणं सुहृत् ' इति श्रुतेः ; 'अमृतस्यैष सेतुः' इति मुण्डके श्रवणात् । यदा चर्मवदिति वाक्यम् उपायान्तराभावपरम् , नान्यः पन्था इत्युक्तार्थविवरणरूपम् । एक्मुपक्रमोपसंहारादिभिः भगवत्परत्वावगमात् बहूपनिषच्छूतयोग्यार्थासाधारणाभ्यस्तनारायणशब्दानुरोधेनैव नानार्थसाधारणैकैकोपनिषत्पठितायोग्यार्थशिवादि- शब्दानां नेयत्वाच्चास्या उपनिषदो भगवत्परत्वं सिद्धमिति ।। - i ,