पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१७०

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्वेताश्वतरोपनिषत् क्षेमाय यः करुणया क्षितिनिर्जराणां भूमावजृम्भयत भाष्यसुधामुदारः । वामागमाध्वगवदावदतूलवातो रामानुजः स मुनिराद्रियतां मदुक्तिम् ॥ इति श्रीमत्ताताचार्यचरणारविन्दचञ्चरीकस्य वात्स्यानन्तार्यपादसेवासमधिगतशारीरकमीमांसाभाष्यहृदयस्य परकालमुनिपादसेवासमधिगतपारमहंस्यस्य श्रीरङ्गरामानुजमुनेः कृतिषु श्वेताश्वतरोपनिषत्प्रकाशिका संपूर्णा ॥ श्रीरस्तु श्रीमते रङ्गरामानुजस्वामिने नमः । बृहदारण्यकान्तानां वेदान्तानां परिष्कृतिम् । विदधानः परिष्कार भाषितानामपि क्रमात् ।। विधित्सुस्तां विनम्यार्यान् वात्स्यः श्रीवीरराघवः । श्वेताश्वतरवेदान्तपरिष्कारं व्यधादिति ।। मानस मदीय शुद्धो हंसः श्रीरङ्गलक्ष्मणो भवति । लसतु, श्वेताश्वतरश्रुतिर्यथादेव इति सदा भाव्या ॥ इति श्रीमद्वेदान्तरामानुजयतीन्द्रचरणारविन्द,चञ्चरीकस्य श्रीमद्रारामानुजयतीन्द्रचरणसरोजसेवासमधिगतसर्ववेदान्तार्थस्य वात्स्यसञ्चक्रवर्तिनो वीरराघवाचार्यस्य कृतिषु उपनिषद्भाष्यपरिष्कारे श्वेताश्वतरोपनिषद्भाष्यपरिष्कारः । शुभमस्तु ॥ .