पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१७२

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीः अथर्वशिखोपनिषत् [अथर्ववेदीयोपनिषच्छान्तिपाठः- भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिव्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।। ओंशान्तिश्शान्तिश्शान्तिः] प्रथमः खण्डः हरिः ओम् । १ अथ हैनं? ? पैप्पलादोऽङ्गिराः सनत्कुमारश्वाथर्वाणमुवाच- श्री: श्री श्रीनिवासपरब्रह्मण नमः [येनोनिषदां भाष्य रामानुजमतानुगम् । रम्यं कृतं प्रपद्ये तं रङ्गरामानुजं मुनिम् ॥] श्रीरङ्गरामानुजमुनिविरचिता अथर्वशिखाप्रकाशिका । अतसीगुच्छसच्छायमञ्चितोरःस्थलं श्रिया । अञ्जनाचलशृङ्गारमञ्जलिर्मम गाहताम् ।। व्यासं लक्ष्मणयोगीन्द्रं प्रणम्यान्यान् गुरूनपि। कुर्वेऽथर्वशिखाव्याख्यां विदुषां तोषहेतवे ।। ध्येयं निर्धारयितुमाख्यायिकामाह-~-अथ हैनम् .... | पिप्पलादसुतश्चाङ्गिर श्च ब्रह्मपुत्रश्च () सनत्कुमारश्चार्थवाणं गुरुमुपेत्य ऊचुः । उवाचेति प्रत्येकाभिप्रायेणैकवचनम् । ............ श्रीमद्भयो रङ्गरामानुजमहादेशिकेभ्यो नमः अथर्वशिखोपनिषद्भाष्यपरिष्कारः इंशान शम्भु शिवशब्दसमीरितोऽपि मुक्तयर्थभक्तिविषयः पुरुषः स विष्णुः । इत्यादिशत् स्फुटमथर्वशिखेति तत्त्वं बुद्धं यतो भवतु तेभ्य इदं नमो नः ।। १. ध्येयं निर्धारयितुमिति । ध्यानकरण - ध्यान - ध्यातृ - ध्येयारूपांशचतुष्टयविषयप्रश्नोत्तररूपाया अप्यस्या उपनिषदो ध्येयदेवताविशेषनिर्धारणैदम्पर्थ, 'न कारणं कारणाना' मित्यादिना परनिषेधपूर्वं तदंशस्थापनोपपादनादवगम्यते ।। सनत्कुमारोऽपि कश्चित् पिप्पलादसुत इति भ्रन्तिव्युदासायाह ब्रह्मपुत्र इति । ऊचुरिति, उपरि, 'एभ्योऽथर्वा प्रत्युवाच' इति वाक्ये प्रतिपाद्य पुरुषस्वरस बहुवचनान्तेदम्मदश्रवणात् प्रष्टारो बहव इति निश्वित्य। एवश्व पैप्पलादोऽन्यः, अङ्गिरा अन्य इति मन्तव्यम् । पिप्पलादोऽङ्गिरा कोत्मङ्गलतालकोषः क अडया तालकोषः ख. मुद्रितकोशः ग. -