पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१७३

एतत् पृष्ठम् परिष्कृतम् अस्ति

७८ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ.शिखा. १. २. किमादौ प्रयुक्तं ध्यानं ध्यायितव्यम् , किं [तद्] ध्यानम् , वा ध्याता, कश्च ध्येय इति । ३. स एभ्योऽथर्वा प्रत्युवाच-ओमित्येतदक्षरमादौ प्रयुक्तं ध्यानं ध्यायितव्यमिति, एतदक्षरं परं ब्रह्म । ४. अस्य पादाश्चत्वारो वेदाः । ५. चतुष्पादिदमक्षरं परं ब्रह्म । " - २. ध्यायते अनेनेति ध्यानं ध्यानकरणम् । उपासनस्यऽऽदौं प्रयुक्तो ध्यानकरणभूतो ध्यातव्यो मन्त्रः क इत्यर्थः । कं' मन्त्र ध्यात्वा आदावुचार्य ध्यानं कर्तव्यमित्यर्थः । तथा ध्यानक्रिया किंदेवतारूपा ध्यातव्या । ध्याता किंदेवतारूपो ध्यातव्यः । ध्येयो देवताविशेषः क इत्यर्थः । ३. एतदक्षरं परं ब्रह्म । अस्मिन्नक्षरे परब्रह्मबुद्धिः कर्तव्येत्यर्थः । ४. अस्य ओंकारस्य अकार-उकार- मकार अर्धमात्रारूपेषु चतुर्ष्ववयवेषु चतुर्वेदबुद्धिः कर्तव्येत्यर्थः । ५. एतस्मिन् ओमित्यक्षरेऽध्यस्तं परं ब्रह्म प्रतीकस्य चतुप्पात्त्वेन स्वयमपि चतुष्पादित्यर्थः । 1. कं वा मन्त्रं. ग. 2. एषु चतुर्वेदबुद्धिः. तालकोशे. इत्यपि श्रुति पठन्ति केचित् । तदा स्पष्टं बहुत्वम् । पिप्पलादः पैप्पलादोऽङ्गिरास्सनत्कुमारश्चेति पाठः श्रुतिभाष्ययोः स्याद्वेत्यपि विमृश्यम् ।। ध्यानकरणमन्त्रः क इत्येतावन्मात्रप्रश्ने ध्यायितव्यमिति पद व्यर्थम् । ध्यानध्यातारौ किंदेवतारूपेण ध्यातव्यावित्येवोपरि प्रश्नः क्रियते, न तु किं नाम ध्यानस्वरूपम् , को नाम ध्यातेति । उपरि तैलधारावदविच्छिन्नस्मृतिसंततिर्ध्यानम् , कर्मज्ञानयोगसंस्कृतान्तःकरणो ध्यातेत्येवंरूपोत्तराभावात् , ध्यानं विष्णुः, ध्याता रुद्र इति देवतारूपत्वस्यैव कथनाच्च । अतो ध्यानकरणमन्त्रोपि किंरूपो ध्यातव्य इत्येव प्रथमप्रश्नोऽपि स्यात् । एवञ्च--ध्यानकरणमन्त्रः प्रणवः । स च नानाक्षरसमाहारात्मकः । तत्र समुदायः ब्रह्मत्वेन भाव्यः । अक्षरमात्राश्च लोकवेदतत्तद्देवतादिरूपेणेति उपरितनवर्णनोपपत्तिः । अतः किं ध्यायितव्यमित्यस्य केन रूपेण ध्यातव्यमित्यर्थो वर्णनीय इति, भाष्ये के ध्यात्वेति किंरूपं ध्यात्वेत्यर्थकम् | तुरीयप्रश्ने तु ध्येयः किंरूपेण ध्येय इत्युक्तावपि ध्येयगोचरदृष्टिविधेर्मोक्षार्थविद्यायामयोगात् ध्येयतत्त्वमेव पृष्टं भवतीति · ध्येयो देवताविशेषः क ' इत्येव प्रश्नपर्यवसानम् । तद् ध्यानमिति । तत् ध्यावमितिपूर्वप्रयुक्तकरणार्थमन्तघटकधातृक्तं ध्यानमित्यर्थः ।