पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१७४

एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वशिखोपनिषत् ६. पूर्वाऽस्य मात्रा पृथिव्यकारः स ऋग्भिः ऋग्वेदो ब्रह्मा बसवो गायत्री गाहपत्यः । ७. द्वितीयाऽन्तरिक्षं स उकारः स यजुभिर्यजुर्वेदो विष्णू रुद्रास्त्रिष्टुप् दक्षिणाग्निः । तृतीया द्यौः स मकारः स सामभिः सामवेदः आदित्याः जगत्याहवनीयः। याऽवसानेऽस्य चतुर्थ्यर्धमात्रा सा सोमलोकः ओंकार साऽथर्वणैर्मन्त्रैरधर्ववेदः संवर्तकोऽग्निर्मरुतो विराडेकर्षिः। ८. भास्वती स्मृता प्रथमा रक्तपीता महब्रह्मदे(दै )वत्या। " 7

६+७. अकार-उकार मकार-नादरूपार्धमात्रात्मकान् ओंकाराक्यवान् पृथिव्यन्तरिक्षद्युलोकसोमलोकत्वैः, ऋग्यजुस्सामाथर्वणत्वैः, ब्रह्मविष्णुरुद्रसंवर्तकाग्नित्वैः, वसुरुद्रादादित्यमरुत्त्वैः, गायत्रीत्रिष्टुब्जगतीविराट्त्वैः, गार्हपत्यदक्षिणान्याहवनीयैकर्षित्वैः स्तौति---पूर्वाऽस्य........ | ऋग्भिः ऋग्वेदः ऋड्मन्त्रोपेतः ऋग्वेद इत्यर्थः । एवमुत्तरत्रापि । सूर्यलोकलक्षणद्युलोकापेक्षया चन्द्रलोकस्योर्ध्ववर्तित्वम् (त्वात् ? ) सोमलोकस्य द्युलोकापेक्षया पृथनिर्देशोपपत्तिः। आथर्वणिकानामेकाग्नित्वात् गार्हपत्यदक्षिणाग्न्याहवनीयाभावात् तस्यैवैकाग्नेरेकर्षिशब्दितस्य गार्हपत्यादिस्थाननिवेश उपपद्यते ॥ नन्ववसाने श्रूयमाणनादात्मिकाया अर्धमात्रायाः, अर्धमात्रत्मको नादो ब्रह्म'नादैकविग्रहः इति प्रमाणप्रतिपन्नाया ओंकारभिन्नत्वात् कथमस्या अर्धमात्रायाः, ओंकार इत्युक्तिरिति चेत्-- अर्धमात्रात्मको नादो ब्रह्मनादैकविग्रह । इत्योंकारं प्रस्तुत्य, 'ततोऽभूत् त्रिवृदोंकारः' इति ओंकारप्रकृतित्वस्य श्रवणात् तस्य ओंकाराभेदव्यपदेश इति द्रष्टव्यम् ॥ ८. प्रथमा अकाराख्या अर्ध (१) मात्रा भास्वतीनाम्नी रक्तपीतवर्णा महत्त्वगुणकामदेवत्या । " " 1. ब्रह्मानन्दैक. क. ८. भास्वतीः स्मृताः इति पृथग्वाक्यपाठस्सर्वत्र । (८-१३। तात्पर्यचन्द्रिकायामपि इममंशं परित्यज्य प्रथमेत्यादिवाक्यमुपात्तम् । एवं नृसिंहतापनीयेऽपि । तद्धि माण्डूक्याथर्वशिखाशिरोवाक्यानि बहुलमनूद्य वर्णयति ।