पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१७५

एतत् पृष्ठम् परिष्कृतम् अस्ति

. . श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ. शिखा. १. ९. द्वितीया विद्युमती कृष्णा विष्णुदेवत्या। १०. तृतीया शुभाशुभा शुक्ला रुद्रदेवत्या । ११. याऽवसानेऽस्य चतुर्थ्यर्धमात्रा विद्युमती सर्ववर्णा पुरुषदेवत्या। १२. स एष ह्योंकारश्चतुरक्षरश्चतुष्पादश्चतु- श्शिरश्चतुरर्धमात्रः (श्चतुर्थमात्रः)। १३. स्थूलमेतं सत् ( स्थूलमेतत् ) हस्वदीर्घप्लुतमिति । १४. ओं १ ओं २ ओं ३ [सः ।] ९. विद्युमतीति स्मृता कृष्णवर्णेत्यर्थः । १०. 'शुभाशुभेति प्रसिद्धा शुक्लवर्णेत्यर्थः । ११. अत्र पुरुषशब्देन वासुदेव उच्यते । " भगवानिति शब्दोऽयं तथा पुरुष इत्यपि । निरुपाधी च वर्तेते वासुदेवे सनातने ॥" 'पुरुसंज्ञे शरीरेऽस्मिन् शयनात् पुरुषो हरिः । शकारस्य षकारोऽयं व्यत्ययेन प्रयुज्यते ।" स्त्रीप्रायमितरत् सर्वं जगत् स्थावरजङ्गमम् । ऋते तमेकं पुरुषं वासुदेवं सनातनम् ।। ब्रह्माद्याः सकला देवा यक्षगन्धर्वकिंनराः । ते सर्वे पुरुषांशत्वादुच्यन्ते पुरुषा इति ।। " इति स्मरणादिति द्रष्टव्यम् । १२. चतुर्थी अर्धमात्रा यस्य स तथोक्तः । पूरणप्रत्ययाभावात् छान्दसः । १३+१४. स्थूलमेतं सत् हस्वदीर्धप्लुतमिति। स्थूल मिलितं सत् हस्वदीर्घ प्लुतभेदेन त्रिविघमित्यर्थः । तदेव प्रदर्शयति औं१. ओं २. ओं ३.। न च एचो ह्रस्वाभावात् कथमोंकारस्य ह्रस्वत्वमिति शक्यम्-न्यूङ्खेषु ह्रस्वस्यापि प्रयोगदर्शनात् । 1. शुभेतिप्रसिद्धा. 2. प्रत्ययाभावः, ग. ३. प्लुतभावेन. क. 4. प्रयोगात्. ख ११. त्रिदोकारे प्रति नादस्य प्रकृतित्ववत् पुरुषस्य वासुदेवस्य त्रिमूर्तिप्रकृतित्वमिति देवतात्वोपपत्तिः । ९३. स्थूलमेतं सदिति पाठमादृत्य आङ्यूर्वकहण्धातोः क्त प्रत्यये एतमिति मिलितमित्यर्थ कमुक्तमिति ज्ञायते । स्थूलमेतदित्येव पाठश्चेत् , स्थूलपदमेव मिलितार्थकं नेयम् अक्षर।विभागात प्रश्नोपनिषदि तु ह्रस्वदीर्घप्लुतानां मात्रापदेन ग्रहणम् । न्यूङ्खेष्विति । न्यूङ्खः ओकारषोडकादि व्याकरणे वाचस्पत्यादौ च द्रष्टव्यम् । 3