पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१७६

एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वशिखोपनिषत् १५. इति विरुक्त्या चतुर्थश्शान्त आत्मा प्लुत प्रणव] प्रयोगेण समस्तमोमिति प्रयुक्त (ज्य) आत्म (प्रयुक्तमात्म) ज्योतिः सकृदावर्तते । १६. प्राणान् सकृदुच्चारितमानस एष ऊर्ध्वमुन्नभयतात्योंकारः । प्राणान् सर्वान् प्रलीयत इति प्रलयः । एवमुक्तप्रकारेण अकार-उकार-मकारात्मकावयवत्रयप्राधान्येन ब्रह्मविणुरुद्र- रूपदेवतानुसंधानपूर्वक हस्वदीर्घप्लुतरूपेण त्रिरुक्त्वा-चतुर्थः तुरीयमात्रार्धभूतः पुरुषशब्दितो वासुदेवः शान्तावद्यो महात्मा चतुर्मात्रप्लुतप्रयोगेण अनुसंदधान' (धीयमान ?) सन् सकृत एकरूपतया स्वात्मज्योतिः स्वप्रकाशज्ञानमयः आवर्तते आ = समन्तात् हृदये वर्ततः इत्यर्थः । चतुर्थार्धमात्रयाऽनुसंहितः परमात्मा हृदये प्रतिष्ठितो भवतीत्यर्थः । ओंकारादिनामानि निर्वक्ति ..... १६. ऊर्ध्वलोकमुन्नमयति प्रापयति । तस्मादोंकार इत्यर्थः । .. 1. संधानस्सन् . क. 2. नामादीनि. ख. 3. उन्नामयति. ग. १५. इति त्रिरित्यत्र इतीत्यस्य एवमित्यर्थः । तद्विवरणम् उक्तरूपेणेति । समस्तमिति क्रियाविशेषणम् । कृत्त्नतयेत्यर्थः । समस्म् ओमिति प्लुतप्रयोगेग प्रयुक्त इत्यन्वयः । प्रकर्षेण युक्तः योगविषयकृतः अनुसंहितः प्रयुक्त इति आत्मविशेणम्। आत्मादात्मज्योतिः पदस्वारस्यादेवं व्याख्यातम् । अन्यथा पुन:-चतुर्थः नादरूपः, शाना आत्मा विना प्रणवं प्रयोगानर्हस्वरूपः प्लुतप्रणवविशिष्टतयैव समन्ततया ओमिति प्रयुज्यमानः स्वात्मस्वरूपं प्रकाशयन् सकृदुक्तो भवति । एषा ह्रस्वदीर्घप्लुतानां पृथक् पृथक् प्रयोगानन्तरं प्लुतस्य ( सनादस्य ) पुनरेकवारमावृत्तिः समस्तप्रणवप्रयोगः इति वाक्यार्थो वक्तव्यः । मात्रार्धिति वासुदेवे शान्तात्मनि चतुर्थ इति चतुथार्थमात्राऽभेदारोपः । उक्तत्रिमूर्त्यधिकत्वाद्वा चतुर्थता । 'चतुर्थ मन्यन्ते स आत्मा' इति माण्डूक्येऽप्युक्तम् । अत्र अकारादौ क्रमेण ब्रह्मविष्णुरुद्रत्वोक्तिः, माण्डूक्ये क्रमेण अनिरुद्धप्रद्युम्नसंकर्षणत्वोक्तिश्च अविरुद्धा; चतुमुखस्य जागरस्त्रष्टुरनिरुद्धाधीनत्वात् , रूद्रस्य च संहारे संकर्षणाधीनत्वात् अत्रापि माण्डूक्योक्त एव तात्पर्यात् । 11