पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१७७

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ.शिखा.२. १७. प्राणान् सर्वान् परमात्मनि प्रणामयतीत्येतस्मात् प्रणवः । चतुर्धाऽवस्थित इति १८, सर्ववेददेवयोनिः, सर्ववाक्यञ्च (क्यवस्तु) (च्यवस्तु) प्रणवात्मकम् । इत्यथर्वशिखायां प्रथमः खण्डः । , (२) १. देवांश्च समुद्धर्ता सर्वेभ्यो दुःखभयेभ्यस्संतारयतीति तारणात तारः। २. सर्वे देवा अस्मिन् विशन्तीति विष्णुः । १७+१८. सर्वेन्द्रियाणि 'परमात्मप्रवणानि करोतीति प्रणव इत्यर्थः । चतुर्धाऽवस्थितः। प्रणव उक्तरीत्या अकार-उकार मकार-नादात्मना चतुर्धा अवस्थित इत्यर्थः । तस्यैवोंकारस्यावयवभूतानां पादानां ऋग्यजुस्सामाथर्ववेद'- रूपत्वात् , (१), ब्रह्मविष्णुरुद्रसंवर्तकाग्निरूपत्वात् , वसुरुदादित्यमरुद्रूपत्वाच्च, गायत्र्यादिच्छन्दोरूपत्वाच्च । सर्ववेददेवयोनित्वमोंकारस्य । अत एव सर्वमपि वाक्यं प्रणवात्मकञ्चे(?)त्यर्थः । १. देवान् सत्त्वप्रकृतिकान् समुद्धर्ता । तदेव विवृणोति-सर्वेभ्य:-तारः। अतः प्रणवस्य तारशब्दितत्वमित्यर्थः । २. सर्वे देवाः ब्रह्माद्या अवयवत्वेनोंकारे प्रविष्टा इति ओंकार एव विष्णुरित्यर्थः । . + 1. परमात्मनि दवणानि. क 2. पदानां. ग. 3. वेदस्वरूपत्वात् , ग. 4. रूपत्वाद्वा. ग. मूले सर्ववेददेवयोनिस्सर्वकवाक्यच्च क, सर्ववेदयोनिस्सर्वात्मकवाक्यत्वश्च ख. १७+-१८. गायच्यादीति पञ्चम्यन्तं वेदरूपत्वादित्येतत्समनन्तरमेव स्यात् ? । सर्ववाक्यवस्तु प्रणवात्मकमिति शङ्करानन्दपाठः । वाक्यं नाम । वस्तु रूपम् । सर्वमपि नामरूपं ब्रह्मात्मकमिति तदुक्तोऽर्थः । सर्ववाच्यवस्तु प्रणवात्मकमिति अष्टोत्तरशतोपनिषत्कोशे । सर्ववाक्यच्च प्रणवात्मकमिति पाठेऽपि सर्वस्यापि वैदिकवाक्यस्य मन्त्रादेश्च प्रणवपूर्वमेव प्रयोगात् प्रणयात्मकत्वं विवक्षितं स्यात् ।।