पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
८३
अथर्वशिखोपनिषत्

३. सर्वाणि बृंह(ब्रह्म)यतीति ब्रह्म । सर्वस्यान्तःस्थाने ध्यायिभ्यः प्रदीपवत् प्रकाशयतीति प्रकाशः [प्रकाशः] प्रकाशेभ्यः । ४, सदा ओमित्यन्तश्शरीरे विद्योतगति ( विद्युद्वद् द्योतयति ) मुहुर्मुहुरिति विद्युदिति प्रतीयात् । ५, दिशं दिशं भित्त्वा सर्वान् लोकान् व्याप्नोति व्यापयतीति व्यापनाव्द्यापी महादेवः ।

६. पूर्वोऽस्य मात्रा जागर्ति जागरितम् । ७, द्वितीया स्वप्नम् । । तृतीया सुषुप्तिः । चतुर्थी (र्थः)तुरीयम् ।


३. सर्वाणि' स्वनुसंधातृभूतानि ज्ञानानन्दादिगुणैः बृंह (ब्रह्म )यति वर्धयतीति ब्रह्म । सर्वस् न्तःस्थाने ध्यायिभ्यः प्रदीपवत् प्रकाशयतीति प्रकाशः-() प्रकाशेभ्य । सर्वस्य ध्यातृजनस्यान्तःस्थाने हृदये वर्तमानस्सन् ध्यायिभ्यः स्वेन ; ध्यायिभ्यः प्रदीपवत् ध्येयं प्रकाशयतीति प्रकाशः प्रकाशेभ्यः अपि सूयादभ्यः अतिशयितया प्रकाशयतीति प्रकाश इत्यर्थः । ४, सदा ओमिति अन्तःशरेिरे ‘हृदयस्थाने मुहुर्मुहुस्तत्त्वं विद्योतयतीति विद्युदिति प्रतीयत् विद्युन्नमकतया जानीयादित्यर्थः । दिशं भित्त्वा दिक्कृत परिच्छेदमन्तरेण सर्वदिग्देशवर्त्तिव्यापकतय। व्यापित्वम् । व्यापित्वादेव महादेवत्वम् व्यापित्वस्यैव महत्त्वा (?) दिति भावः ।

एवनुमस्मरणार्थं नामानि निरुच्य, अथ ‘एतदक्षरं परं ब्रह्म् ’ इति प्रक्रमोपदिष्टं ब्रह्मध्यानसाधनत्वं निरूप्यते-पूर्वोऽस्य मात्रा जागर्ति । “ जागरिते ब्रह्मेति श्रुतेः जाग्रद्दशासंपादकत्वादकारस्य ब्रह्मणो जागर्तींत्युक्तिः । अतः पूर्वमात्रैव जागरितम् । तुरीयम् मोक्ष इत्यर्थः । ब्रह्मविष्णुरुद्रपुरुषशब्दितानां चतुर्णाम् अकार-उकार-मकार-अर्धमात्रार्थानां जागरितस्वप्नसुषुप्तिमुक्त् यवस्थासंपादकत्वात् 1, सर्वाँणीत्यत्र ‘ ब्रह्म' इति. ग 2. प्रकाशेभ्य इति न, ग. 3. सर्वस्यान्तः, ख. 4, अन्तश्शरीरे विद्योतयति हृदयस्थाने. क.


प्रकाशः प्रकाशः प्रकाशेभ्य इति द्विरावृतपाठो भाष्येपि संमतो वेति विमृश्यम् ।