पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१७९

एतत् पृष्ठम् परिष्कृतम् अस्ति

1 श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ.शिखा,२ ८.मात्रा मात्राः प्रतिमात्रा गताः । ९. सम्यक समस्तानपि वादान् जयतीति स्वयं प्रकाशः स्वयं ब्रह्म भवतीत्येष सिद्धिकरः । १०. एतस्माद् ध्यानादौ प्रयुज्यते । ११. सर्वकरणोपसंहारत्वात् धार्यधारणाद् ब्रह्म तुरीयम् ॥ १२. सर्वकरणानि मनसि संप्रतिष्ठाप्य ध्यानं विष्णुः । तदभिमानत्वाच । "जागरित ब्रह्मा ; स्वप्ने विष्णुः ; सुषुप्ते रुद्रः; तुरीयं परमक्षरम् " इति श्रुत्यन्तरात् । [ मात्रा: ] एवं प्रमात्रा = एवमवगच्छतेत्यर्थः । मात्राः 'चतस्रोऽपि मात्राः [प्रतिमात्राः गताः ] प्रतिनियतार्थतया अवगता भवन्तीत्यर्थः । समस्तान् ब्रह्मवादान् जयतीत्यर्थः । स्वयं ब्रह्म भवति । आविर्भूतब्राह्मरूपो * भवतीत्यर्थः । एषः ओंकारः सर्वसिद्धिकर इत्यर्थः । एतस्मात् ध्यानादौ प्रयुज्यते । एतस्माद्हेतोः ध्यानादौ प्रणवः प्रयुज्यत इत्यर्थः । सर्वकरणोपसंहारत्वात् सर्वेन्द्रयवशीकरणहेतुत्वादित्यर्थः । धार्यस्य अवधारणीयस्य ब्रह्मणोऽवधारणहेतुत्वाच्च, ब्रह्मप्राप्तसाधनत्वाद ब्रह्मप्रतीकत्वाद "ब्रह्मगुणयोगाच्चैतदेव ब्रह्मेत्यर्थः ॥ एवं प्रथमप्रश्नस्योत्तरमुक्त्वा द्वितीयपश्नस्योत्तरमाह-सर्वकरणानि...... विष्णुः । सर्वाणि बाह्यन्द्रियाणि मनसि विलीनानि कृत्वा क्रियमाणं ध्यानम् । तद् विष्णुः । विष्णुरूपत्व ध्यानं कर्तव्यमित्यर्थः । आविर्भूतस्वरूपो. ख. ग. 1. 'चतस्रोपि मात्रा इत्यर्थ ' इत्येतावदेव. क. कोशेषु वाक्यारम्भे मात्रा इति नास्ति । मात्रामात्राः चतस्रोऽपि मात्रा इत्यस्ति । 2.कारण. ग १. बृहत्त्वगुण, ग. 4. विष्णुस्वरूप. ग. एतदुपरि ग. कोशे बहुलं व्याख्येयव्याख्यानव्युत्क्रमसंक्रमादि । ब्रह्मगुणेति । परस्य ब्रह्मगो बृहत्त्वमप्यस्ति । प्रणवे तदभावेऽपि पूर्वोक्तं बृंहणत्त्वमस्तीति भावः | ध्यानं विष्णुरिति । अत्र ज्ञानस्य स्वयं प्रकाशतया मितिमातृमेयरूपत्रिपुटीभाननैयत्येऽपि निर्विकल्पसमाधौ, " अधराहितचारुवंशनालाः मकुटालम्बिमयूरपिञ्छमालाः । हरिनीलशिलाविभङ्गनीला: प्रतिभास्सन्तु" " दयाशिशिरिताशया मनसि मे सदा जागृयुः श्रियाऽध्युषितवक्षसः- संविदः" इति देशिकोक्तदिशा मितिमेयभेदापरिस्फूर्त्या मेयमात्रशेषणात् 'ध्यानं केवलं ध्येयविष्णुमयमेव भवति । तदेवं ध्यानं श्रेष्ठमिति दर्शितम् । अनेनैव ध्येयो विष्णुरिति सिद्धम् ।