पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१८०

एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वशिखोपनिषत् 2 १३. प्राणं मनसि सह करणैस्संप्रतिष्टाध्य ध्याता रुद्रः । १४. प्राणं मनसि सह करणैर्नादान्ते परमात्मनि संप्रतिष्ठाप्य ध्यायीतेशानं प्रध्यायितव्यम्। १५. सर्वमिदं ब्रह्मविष्णुमहेन्द्रास्ते [सर्वे] तृतीयस्योत्तरमाह ---प्राणं.... रुद्रः । मनसि प्रविलापितैरिन्द्रियैस्सह प्राणमपि जीवमपि, “ यच्छेद्वाङ्मनसी प्राज्ञस्तद् यच्छेद् ज्ञान आत्मनि । ज्ञानमात्मनि महति नियच्छेत् तद् यच्छेच्छान्त आत्मनि' इत्युक्तरीत्या परमात्मनि संप्रतिष्ठाप्य ध्याता पुमान् रुद्ररूपः । ध्याता रुद्रबुद्द्या ध्यातव्य इत्यर्थः । कश्च ध्येय इति चतुर्थस्योत्तरमाह---प्राण-प्रध्यायितव्यम् । नादान्ते अर्धमात्रावसाने परमात्मनि जीवं संप्रतिष्ठाप्य तच्छेषतैकप्रवणं कृत्वा प्रकर्षेण ध्यातव्यमीशानं ध्यायीतेत्यर्थः । एवञ्च ईशानशब्दितो देवनाविशेषो थ्यातव्य इत्युक्तं भवति। प्रध्यायितव्यम् इति आत्याभावेडा गमौ छान्दसौ । तस्यैव प्रकर्षेण ध्यातव्यत्वे युक्तिमाह सर्वम्- । सर्वमिदं चिदचिदात्मकप्रपञ्चभूतं प्रसिद्धाः ब्रह्मविष्णुरुद्रेन्द्राः 1. इगा. तालकोशे । इडा. ग. " प्रपत्र ग ध्याता रुद्रः । विष्णूपासकेषु योगिषु मध्ये गर्वज्ञो रुद्र एवं सम्यक् परमात्मनो ध्यातेति स्वस्मिन् रुद्रभावना ध्यातुर्ध्यानपरिनिष्पत्त्युपयोगिनीति भावः । अनेन परमैकान्तिनोऽपि रुद्रे गौरवातिशयः, न तु मुक्त्यर्थमुपास्यत्वमिति च दर्शितम् || अत्र प्रथमवाक्ये सर्वकरणानां मनसि प्रतिष्ठापनम् , द्वितीयवाक्ये प्राणस्यापि मनसि प्रतिष्ठापनम् , तृतीयवाक्ये मनसीव परमात्मनि प्रतिष्ठापनश्च क्रमेणोक्तमस्ति । तथाच प्रत्याहारः, प्राणायामः, ध्यानधारणादि च क्रमेणोक्तमिति प्रतीयते । तत्रैतद्वाक्यत्रयमुख्यार्थभूतेषु, ध्यानं विष्णुः, 'ध्याता रुद्रः, “ध्यायातेशानं प्रध्यायितव्यम्' इत्येतेषु प्रत्याहाराद्यर्थत्रयक्रमस्य न कश्चित् प्रतिनियत उपयोगो लक्ष्यते । अतः तत्तदंशव्युत्पादनमात्रे श्रुतेस्तात्पर्यम् ; सर्व सर्वत्र विवक्षितमेव इत्यभिप्रेत्य द्वितीयवाक्य एव, 'परमात्मनि संप्रतिष्ठाप्य ' इति परमात्मघटनं कृतं भाष्ये । प्राणायामस्य च प्रत्याहारापेक्षया पूर्वाङ्गतया अष्टाङ्गयाोगे परिगणनात् पूर्ववाक्ये करणप्रतिष्ठापने कथिते प्राणायामोऽपि कथितप्राय इति प्राणपदं जीवपरं स्वीकृतम् । अथवा ध्यानस्य विष्णुमयत्वं विष्णुमात्रगोचरत्वं विषयान्तरभूतदेवमनुष्यादितः करणानां प्रत्यहारे सत्येवेति पूर्ववाक्ये त.यदुक्तम् । ध्यातुः रुद्रतादात्म्यभावना च रुद्रवत् स्वात्मनः परमात्मनि प्रतिष्ठापने कृत एव भवतुमर्हतीति द्वितीयवाक्ये यथाभाष्यं तद् विवक्षितम् । मोक्षार्थध्येयेशानध्यानच्च नादान्ते परमत्मनि प्रतिष्ठान एव, न पुनः नादार्थापरिचये इति तृतीययाक्ये दर्शितामति प्रतिनियतनिर्दशोपपत्तिर्विमृश्या । तृतीयवाक्यस्य वेदार्थसंग्रहवर्णितोऽर्थ उपरि दर्शयिष्यते । एवं, 'न कारण'मित्यस्य श्रुतप्रकाशिकोक्तोऽर्थोऽपि । . , -