पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१८१

एतत् पृष्ठम् परिष्कृतम् अस्ति

. श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ.शिखा.२. संप्रसूयन्ते सर्वाणि चेन्द्रियाणि सह भूतैः। १६.न कारणं कारणानां धाता ध्याता। १७. कारणं तु ध्येयस्सर्वैश्वर्यसंपन्नः सर्वेश्वरः शम्भुराकाशमध्ये । भूतेन्द्रियैस्सहोत्पद्यन्ते । अत उत्पत्तिमत्वादेषां न प्रकर्षेण ध्यातव्यत्वमित्यर्थः । ननु सर्वकारणत्वेन प्रसिद्धयोर्ब्रह्मरुद्रयोः कुतो न प्रध्यातव्यत्वमित्यत्राह-न कारण ॥ धाता ब्रह्मा कारणभूतोऽपि, पूर्वत्र 'ध्याता रुद्रः । इति ध्यातृत्वेनोक्तश्च रुद्रः' जगत्कारणभूतोऽपि जगत्कारण कारणं न भवतीत्यर्थः । पुनः किं ध्येयमित्यत्राह-कारणं तु....। कारणं चेतनाचेतनात्मकप्रपञ्चकारणभूतः सर्वेश्वरः सर्वनियन्ता सर्वैश्वर्यसंपन्नः सर्वेण-सर्वविधेन ऐश्वर्येण= शेषित्वेन, मातापितॄनृपलोकपालादिनिष्ठेनापि शेषित्वेन, संपन्नः, मातापित्रादिरूपेण च यः स एव, शं भवत्यस्मादिति शम्भुः मोक्षपद इत्यर्थः । स एव हृदयाकाशमध्ये ध्यातव्यः, न त्वीशानशब्दवाच्यः संहर्ता रुद्र इत्यर्थः । [" इति नारायणः शम्भुर्भगवान् जगतां पत्ति: संदिश्य विबुधान् सर्वानजायत यदोः कुले ॥" इति शम्भुशब्दस्य भगवत्परतायाः तदुत्पत्तेरवताररूपतायाश्चोपबृंहितत्वादत्रत्यशम्भुशब्दोऽपि भगवत्परः । ब्रह्मविष्णुरुद्रेन्द्रा इति श्रूयमाणाऽपि विष्णोरुत्पत्तिरवतार- 1. रुद्रश्व. क. नन्वस्तु नाम विष्णोर्जन्म अवतारभूतम् । अथापि तस्य रुद्रादिवदुपास्यत्वं न भवति, सर्वकारणस्य पुरुषस्य परवासुदेवस्यैवोपास्यत्वविधानादिति चेन्न-विष्णुपुराणे, 'नैसर्गिको न वै बोधस्तेषामप्यन्यतो यतः' इत्येवं परतन्त्रोपासनस्यैव मोक्षाहेतुत्ववर्णनात् । विष्णोर्वासुदेवाभिन्नतयाऽनुपास्यत्वायोगाच्च । अत एव, ध्यानं विष्णुः इति परध्यानस्य विष्णुरूपत्वमत्रैवोक्तम् । 'विभवार्चनाद् व्यूहं प्राप्य ब्यूहार्चनात् परं ब्रह्म वासुदेवाख्यं प्रतिपद्यन्त' इतिवत् विष्णूपासनं क्रमिकमुक्तिहेतुरपि स्यात् । तथा फलान्तरहेतुरपि ; परोपासनं पुनः साक्षान्मुक्तिहेतुरिति तत्र श्रुतेरादरः। किञ्च यथा परिच्छिन्नविभवः प्रतीयते विष्णुः, तथा तस्य मुक्तयेऽनुपास्यत्वमेव । परवासुदेवाभिन्नतया तादूप्येणोपासनं तु नासंमतम् । ब्रह्मरुद्रादीनामपि हि ताद्रूप्येणोपासनमिष्टम् । परंतु ताद्रूप्यमिदं प्रमाणबलात् तत्र शरीरात्मभावरूपम्, विष्णुविषये तु साक्षादमेद इति विशेषः । अत एष, विष्णोः सकाशादुद्भूतं जगत्तत्रैव च स्थित मित्यादिः परमर्षिपराशरसूक्तिरिति । --