पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१८२

एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वशिखोपनिषत् १८.ध्रुवं स्तब्ध्वाऽधिक क्षणमेकम् , क्रतुशतस्यापि चतुस्सप्तत्या यत् फलम् , तदाप्नोति कुत्स्नमोंकारगतिञ्च सर्वध्यानयोगज्ञानानां यत् फलम् । रूपेति द्रष्टव्यम् ?] " अजायमानो बहुधा विजायते ", "पिता पुत्रेण पितृमान् योनियोनौ " इत्यादिश्रुतिरप्यत्रानुसंधेया । एकं क्षणमधिकं वा ध्रुवं = स्थिरं परमात्मानं स्तब्ध्वा नैश्चल्येन ध्यात्वा

" अजायमान इति वाक्यमिदं सर्वव्याख्यानाधिकरणश्रुतप्रकाशिकायामथर्वशिखानिर्वाहे एतद्वाक्योपादानस्थल इव अत्रापि विष्णूत्पत्तेरवताररूपत्वस्थापनार्थमेव प्रवृत्तम् अन्यथा असंगतेरिति , कोशेषु त्रिचतुरवाक्यव्याख्यानानन्तरनिविष्टः । इति नारायणः शम्भुः इत्यादिः 'द्रष्टव्य'मित्यन्तो अन्योऽत्रैव भाष्य इति अत्रैव मुद्रितः । शम्भुशब्दस्याप्यत्रैव सत्त्वात् उपरितद्ग्रन्थानन्वयाच्च अत्रेदमथर्वशिखारहस्यम्-कश्च ध्येय इत्यस्य साक्षात् समानाकारमुत्तरम्-कारणं तु ध्येय इति । तच्छेषतया प्रवृत्ते, 'ध्यायीतेशानं प्रध्यायितव्यम्' इति वाक्ये इदमुच्यते । ईशानं ध्यायेत् । कीदृशमीशानम् ? न रुद्राभिधमीशानम् , किंतु प्रध्यातव्यम्, प्रकर्षेण ध्यानार्हम् , प्रकर्षेण ध्येयतया विधिप्राप्तमीशानम् । प्रकृष्टध्यानं नाम मोक्षार्थध्यानम् । प्रसिद्धेशानव्यावर्तनाय प्रध्यातव्यमिति प्रयुज्य, कुतस्स रुद्र ईशानः प्रध्यातव्यो न भवतीत्याशङ्कां परिहर्तुं सर्वमिदमिति वाक्यं , 1. आकाशमध्यइत्येतदनन्तरं पुनर्ध्येयपदं नास्तीति श्रुतप्रकाशिकाशैल्याऽप्यवगम्यते, कारणमित्यारभ्य वाक्यैक्यात् । 2. ओंकारगतमिति क्वचित् पाठः । अत्र पाठभेदादेस्सुगमत्वाय आनन्दात्मशिष्यशङ्करानन्दकृत प्रतिपदव्याख्यातालकोशग्रन्थात् कतिपयांश उद्विूयते-अर्धमात्रा अर्ध बिन्दुः । तद्रुपा मात्रा । संवर्तकोऽग्निः संकर्षणः मुखानलः । भास्वतीः स्मृताः । भास्वत्यो विचित्रवर्णाः प्रकाशादिकाः; स्मृताः चिन्तिताः । महत् महदाख्यम् । शुभाशुभा पुण्यपाररूपा, एतन्नाम्नी च । चतुप्पादः ऋग्वेदादिः चतुष्पादः । चतुश्शिरः ब्रह्मविष्णुरुद्रपुरुषरूपशिरस्कः । चतुश्शिरा एवं चतुश्शिरः । चतुरर्धमात्रः । गार्हपत्याद्यग्नय एवार्धमात्रा इति । प्लुतप्रयोगेण प्लुतातीतत्वेन प्रणवस्य प्रयोगेण । प्राणानुद्दिश्य प्रलीयते लयं याति । प्राणान् स्वस्मिन् लयं नयतीति वा । प्रणामयति प्रकर्षेण प्रापयति । चतुर्धावस्थितः पृथिव्यादिरूपैश्चतुष्प्रकारावस्थितः। इति अस्मात् कारणात सर्ववेददेवयोनिः । सर्ववाक्यवस्तु सर्वनामरूपम् प्रणवात्मकम् प्रणवस्वरूपम् । देवाश्चेति 'चतुश्शिरआदिपदानामस्मद्भाष्ये विशेषव्याख्यानादर्शनात् चतुरर्धमात्रत्वादेव चतुरक्षर इति चतुष्पाद इति चतुश्शिर इति चोच्यत इत्येतावानेवार्थोऽभिमतः स्यादित्यूह्यते ।