पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१८३

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ. शिखा.२. १९. ओंकारो वेदपर ईशो वा। २०.शिव एको ध्येयश्शिवंकरः सर्वमन्यत् परित्यज्य । २१. समाप्ताऽथर्वशिखेति । . -- क्रतुशतचतुस्सप्ततिफलमाप्नोति कृत्स्नम् ओंकारगतिं ओंकारप्राप्यं फलञ्चाऽऽप्नोतीत्यर्थः । सर्वध्यानयोगज्ञानानां यत् फलम् , तत् फलं प्राप्नोतीत्यर्थः । उक्तं ध्यानकरणमोकारं स्तौति ओंकार: । सर्वस्माद्वेदात् ओंकारः श्रेष्ठ इत्यर्थः । सर्वफलप्रदाने ईशः शक्तश्चैयर्थः । वाशब्दश्चार्थे ।। ध्येयमुपसंइति-शिवः-परित्यज्य । अन्यत् सर्वं परित्यज्य ।? * इति नारायणः शम्भुभगवान् जगतां पतिः........विष्णोरुत्पत्तिरवताररूपेति द्रष्टव्यम् * ? । शिवंकरः “शिवकरः मोक्षपदश्शिव एव ध्येयः । अत्रत्यशिवंकरःशब्दः प्रसिद्धशिवव्यावृत्त्यर्थः ।। वक्तव्यांशं ( शे?) किमपि नावशिष्टमिति स्वयमेव श्रुतिराह-समाप्ताऽथर्वशिखेति । B " शंकरः ग. 3. शिवशंकरशब्दः. ग. 1 ध्यात्वा यत् फलं तच्चाप्नोति. क.

  • इदं अवयं पूर्ण पूर्वपुटे मुद्रितम् ।

देवादयोऽपि प्रणवात्मका इत्यनेन प्रकारेण । संधत्ताम् संधत्त = सम्यग् ध्यानं कुरुत। स्थानेभ्यः स्थानशब्दाभिधेयेभ्यः । ध्यायिभ्यः ध्यानशीलेभ्यः अधिकारिभ्य (चतुर्थी) [अत्र 'सर्वेभ्योऽन्तशरीरे स्थनेभ्यः प्रकाशयतीति प्रकाशः प्रकाशः प्रकाशेभ्यः । सदोमिति विद्युमद् द्योतयति मुहुर्मुहुरिति विद्युद्वत् प्रदीयात् इति पाठः । दिशे दिशमिति द्विः पाठो नास्ति । व्याप्नोति व्यापयतीति पाठः जागर्ति जागरणं करोति । तेन सा जागरणम् । अत्र मात्रेत्यादेः कमप्यर्थपवर्ण्य, मात्राचतुष्टयान्नाधिकामित्यर्थः' इति भावो वर्णितः । ] सर्वमिदं ब्रह्मविष्णुरुदेन्द्रात्मकम् । ते ब्रह्मादयः संप्रसूयन्ते स्वभिन्नं सर्वमिदमुत्पादयन्ति । अत्रापि सर्वे इति पदं न ] किमीश्वरस्वरूपमिन्दियभूतमायाध्यातृरूपमनन्यद्वेत्यत्राह सर्वाणि चेति ! कारणमिति मायोच्यते । इन्द्रियादि न ध्येयमित्यर्थः । किंतु कारणमेव ध्येयम् । कारणमिह मायाया अप्याश्रय. [ सर्वेश्वरश्चेति चकारसहित पाठः ] शम्भुः सुखकरणम् । आकाशमध्य इति । उपर्यन्वेति । आकाशमध्यं स्तब्धतां नोत्येत्यर्थः । ओंकारो यत् फलं वेद जानाति, तदप्याप्नोति । पर ईशो वा परः ईश एवेति ॥