पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१८४

एतत् पृष्ठम् परिष्कृतम् अस्ति

अ. ६.] अथर्वशिखोपनिषत् २२. एतामधीत्य द्विजो गर्भवासात् विमुक्तो विमुच्यते; एतामधीत्य द्विजो गर्भवासाद्विमुक्तोविमुच्यत इति [ओं सत्यमित्युपनिषत् ॥ इति द्वितीयः ? खण्डः । ओं भद्रं कर्णेभिरिति शान्तिः । इत्यथर्वशिखोपनिषत् ॥ || श्रीरस्तु॥ एताम्.. .। एतामुपनिषदमधीत्य पूर्वोऽपि जनो विमुक्तः । अद्याप्यधीयमानो (अधीयानो!) विमुच्यत इत्यर्थः । द्विरुक्तिरुपनिषत्समाप्त्यर्था । क्षेमाय यः करुणया क्षितिनिर्जराणां भूमावजम्भयत भाष्यसुधामुदारः । वामागमाध्वगवदाबदतूलवातो रामानुजः स मुनिराद्रियतां मदुक्तिम् ।। इति श्रीमत्ताताचार्यचरणारविन्दचञ्चरीकस्य वात्स्यानन्तार्यपादसेवा. समधिगतशारीरकमीमांसाभाष्यहृदयस्य परकालमुनिपादसेवा- समधिगतपारमहंस्यस्य श्रीरङ्गरामानुजमुनेः कृतिषु अथर्वशिखोपनिषत्प्रकाशिका संपूर्णा । ॥ शुभमस्तु ॥ प्रवर्तितम् । सर्वस्येव प्रपञ्चस्य, ब्रह्मरुद्रादेरपि कार्यत्वात् , " आब्रह्मस्तम्बपर्यन्ता जगदन्तर्व्यवस्थिताः । प्राणिनः कर्मजनितसंसारवशवर्तिनः ।। यतस्ततो न ते ध्याने ध्यानिनामुपकारकाः", "अशुद्धास्ते समस्तास्तु देवाद्याः कर्मयोनयः" । इत्युपबृंहितरीत्या न मुमुक्षुध्येयत्वमित्युक्तं भवति । ननु जगत्संहारकारणत्वेन प्रसिद्ध ईशानः कथं संप्रसूयते इत्यत्राह न कारणमित्यादि । अत्र धातुर्ब्रह्मण उपादानं रुद्रपितुर्ब्रह्मण एव कार्यत्वे अध्येयत्वे च सति किमुत रुद्रस्येति ज्ञप्तये । एतेन ईशानशब्दस्य रूढत्वे रुद्र एव ध्येयः, यौगिकत्वे चतुर्मुखोऽपीति शङ्काऽपि शमिता, तयोः व्यष्टिगतयोः कारणभूतसमष्ट्यादिकारणत्वाभावात् । अतः कारणकारणत्वादिविशिष्टो यः शम्भुः स ध्येयः, न तु कार्यभूतोऽनीश्वरशम्भुरिति । आकाशमध्य इति वात्सल्यातिशयेन विशेषानुग्रहाय अजहत्स्वस्वभावतया हृदयकुहरेवतीर्णत्वं प्रदर्श्यते । तेन हार्दावतारवत् विष्ण्वाख्योऽवतारोऽपि कश्चिदिति नावताररूप संप्रसूतिरैश्वर्यघातिनीति गमितम् । 13