पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१८५

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता . तर्हि विष्णोरिव ब्रह्मरुद्रयोरपि प्रसूतिरवतार एवास्त्विति शङ्काशमनाय ब्रह्मविष्णुरुदेन्द्रा इति इन्द्रस्य सह घटनम् । तथासति इन्द्रादिजन्माप्यवतारः स्यादिति । महेन्द्रस्य, सर्वमिदमित्युक्तप्रपञ्चस्येवोपेन्द्रवशत्वमिन्द्रप्राणाधिकारणसिद्धम् । तथा च जन्मसामान्यं कर्मकृतमित्युत्सर्गः । अकर्मश्यतया, 'न चास्य कश्चिज्जनिता न चाधिपः' इति अकारणकतया, विशेषवचनबलाच्च विष्णुप्रसूतिरेवावतार इति । तत् सिद्धं प्रसिद्धरुद्रव्यावर्तनेन अर्धमात्रादेवताभूतः पुरुषः परमात्मा श्रीमन्नारायण एवं रुद्रतुल्येन ध्यात्रा सर्वेश्वरदिशवपितामहश्शिवंकरश्शम्भुरत्र ध्येयतया प्रतिपाद्यत इति ॥ विमुक्तपदं न रागद्वेषादिविमुक्तिपरम् कठोपनिषदि, ' विमुक्तश्च विमुच्यते' इत्यत्रेव; गर्भवासादितिश्रवणात् । अतः एवं व्याख्यातम् । एतद्विद्यया पुनर्जन्मरहित एव सन् अस्मिन्नेव जन्मनि मुक्तो भवतीत्यर्थस्तु कामं घटताम् । इत्यथर्वशिखाभाष्यपरिष्कारो व्यतन्यत । ईशाद्युपनिषद्भाष्यपरिष्कारविधायिना ॥ इति वेदान्तरामानुजयतीन्द्रपदाब्जमधुव्रतस्य श्रीरङ्गरामानुजमुनि- चरणाम्बुजसेवासंपादितसर्ववेदान्तस्य वात्स्यसच्चक्रवर्तिनो वीरराघवाचार्यस्य कृतिषु अथर्वशिखाभाष्यपरिष्कारः श्रीमते लक्ष्मीहयवदनपरब्रह्मणे नमः शुभमस्तु ।