पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१८६

एतत् पृष्ठम् परिष्कृतम् अस्ति

अर्थविशेषः - इति वेदार्थसंग्रहे, प्राणं मनसि सह करणैः इत्यादिवाक्यस्य अथर्वशिखागतस्यार्थ एवं संगृहीतः----। “ अतः प्राण मनसि सह करणैः" इत्यादिवाक्यं सर्वकारणे परमात्मनि करणप्राणादि सर्वे विकारजातमुपसंहृत्य * तमेव परमात्मानं सर्वस्येशानं ध्यायीतेति परब्रह्मभूतनारायणस्यैव ध्यानं विदधाति । 'पतिं विश्वस्येति, न तस्येशे कश्चनेति च तस्यैव सर्वस्येशानता प्रतिपादिता । अत एव सर्वैश्वर्यसंपन्नः सर्वेश्वरः शम्भुराकाशमध्ये ध्येय इति नारायणस्यैव परमकारणस्य शम्भुशब्दवाच्यस्य ध्यानं विधीयते । कश्च ध्येय ' इत्यारभ्य, 'कारणं तु ध्येय । कार्यस्याध्येयतापूर्वकारणैकध्येयतापरत्वाद् वाक्यस्य ।" इति ।

  • " उपसंहृत्य = परमात्मनि विकारजातोपसंहारमनुसंधाय " इति वेदार्थसंग्रहव्याख्या तात्पर्यदीपिका । तुरीये सर्वकरणोपसंहारत्वस्य प्राक् श्रुत्युक्तत्वात्

तदनुगुणमिदम् । 'न कारणम् । इत्यत्र पूर्ववाक्यात् 'संप्रसूयत ' इति विपरिणम्यानुषङ्गेण, जगत्कारणं नोत्पाद्यत इत्यर्थ उक्तः श्रुतप्रकाशिकायाम् । तदनुरोधेन भावपकाशिकायाम् , 'धाता ध्याता' इत्यस्य जगतः स्रष्टा तदर्थमादिसर्गसंकल्पकर्तेत्यर्थो वर्णितः । शम्भुशब्दार्थश्च श्रीसहस्रनामभाष्ये एवं भाषितः-, "स्वसौन्दर्यसौशील्यादिगुणाविष्कारेण शं सुखं भावयतीति शम्भुः" इति । - श्रीः अथर्वशिरस्सारः - एवमथर्वशिरोर्थसंग्रहश्च वेदार्थसंग्रहे--, " यत् पुनरथर्वशिरसि रुद्रेण स्वसर्वैश्वर्यं प्रपञ्चितम् , तत् — सोऽन्तरादन्तरं प्राविशत् । इति परमात्मप्रवेशादुक्तमिति श्रुत्यैव व्यक्तम्" इति । व्याख्यातमिदमित्थं तात्पर्यदीपिकायाम्-" रुद्रेण को भवानिति पृष्टेन प्रथमम् , अहमेकः प्रथममासं वर्तामीत्यादिना स्वस्य सर्वात्मकत्वे उक्ते, 'परमात्मनो हि सर्वात्मकत्वम् ; कथं तद् भवतः' इत्यपेक्षायाम् , इत्थमिति प्रकारार्थोऽयमितिशब्दः । सोऽन्तरादन्तरमिति वक्ष्यमाणप्रकारेणेत्यर्थः । यद्वाऽत्र .