पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१८७

एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वशिरस्सारः इतिर्हेतौ। ' सोऽन्तरादन्तरं प्राविशत् दिशश्चान्तरं स प्राविश 'दिति परमात्मानुप्रवेशात् सर्वात्मकत्वमित्यर्थः । इतिशब्दस्य हेतुपरत्वमभिप्रेत्य परमात्मप्रवेशादित्युक्तम् । यद्यपि इतिशब्दस्य समाप्तिरेवार्थः; अर्थान्तरं न स्यात्-~अथापि धर्मिकल्पनातो वरं धर्मकल्पनेति न्यायात् प्रयुक्तस्य इतिशब्दस्य रुद्रवाक्यावसानेऽन्वयकल्पनं न्याय्यम् , न स्वप्रयुक्तपदान्तराध्याहार इति । तस्माद् रुद्रवाक्यमेवेदम् । स इति परमात्मोच्यते, बुद्धिस्थत्वात् परमात्मनः । सः अन्तरादन्तरं शरीरादन्तरस्य प्राणादेरप्यन्तरं जीवं प्राविशत् । दिशश्चान्तरम् । दिक्छब्देन समस्तजगद्वर्तिवस्तुजातं लक्ष्यते । सर्वपदार्थानामन्तरं जीवात्मवर्गं प्राविशत् । सर्वसामानाधिकरण्यस्य वक्ष्यमाणत्वात् तदुपपत्तये स्वस्य सर्वजीवानाञ्च परमात्मानुप्रवेश उक्तः । एवं रुद्रवाक्यत्वमेव युक्तम् । यद्वा श्रुतिवाक्यमस्तु । तदाऽयमर्थः-सः रुदः अन्तरादन्तरं जीवादन्तरं परमात्मानं प्राविशत् बुद्द्याऽगाहत । अनुप्रवेशशब्दस्य सम्यग्बोधनार्थत्वं लोकसिद्धम् । तथा चाणक्यप्रयोगश्च–'यस्य यस्य हि यो भावस्तेन तेन हि तं नरम् । अनुप्रविश्य मेधावी क्षिप्रमात्मवंशं नयेत् । इति । सः रुद्रः स्वान्तर्यामिणं सर्वपदार्थान्तर्यामिणं परमात्मानं तच्छरीरकं बुद्धयाऽनुसंहितवानित्यर्थः । एवं निर्बाहद्वयमभिमेत्य परमात्मप्रवेशादित्युक्तम् । परमात्मनः प्रवेशादिति षष्ठीसमासः । परमात्मकर्तृकप्रवेशात् परमात्मकर्मकप्रवेशाच्चेति भावः " इति । अत्र इतिशब्दस्य हेतुपरत्वे परमात्मप्रवेशादित्युत्तरवाक्येऽन्वय' इव पूर्व- वाक्यान्वयोऽपि दर्शितः सर्वव्याख्यानाधिकरणश्रुतप्रकाशिकायाम् - , नान्यः कश्चिन्मत्तो व्यतिरिक्त इति मव्ध्यतिरिक्ताभावादित्यर्थः । मव्द्यतिरिक्ताभावात् अहमेव प्रथममासं वर्तामि च भविष्यामि चेति । अथोपरितनखण्डार्थसंग्रहोऽपि (श्रुतप्र.), द्वितीयखण्डो रुद्रवाक्यानु- वादेन स्तुतिपरत्वात् तदन्तर्यामिपरमात्मविषयः । यो वै रुद्रः स भगवानिति । 1. अथर्वशिरस उपक्रमस्तावत्- "देवा ह है स्वर्गमायन् । ते (देवा) रुद्रमपृच्छन् को भवानिति । सोऽब्रवीत् , अहमेकः प्रथममासम् , वर्तामि च, भविष्यामि च । नान्यः काश्चिन्मत्तो भ्यरिति इति । द्योन्तरादन्तरं प्रवीशत् दिशच्चान्तरं प्राविशित् सोऽहं नित्योऽनित्य " इत्येवम् ।