पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१८८

एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वशिरस्सार यो रुद्रान्तर्यामी स वासुदेव इत्यर्थः । भगवच्छब्दस्य वासुदेवासधारणत्वात् । तच्च दर्शितम् । यो वै रुद्रः स भगवान् यश्च विष्णुरिति अन्तर्यामिण एवावताररूपविशिष्टत्वमुक्तम् । तृतीये तु परमात्मनो वैभवम् । तद्वाचकस्य ओंकारस्य नामधेयानि चतुर्थे । तन्निर्वचनं पञ्चमे। षष्ठे तु, * *तदेतदुपासितव्यम् , 'निचाप्य ते शान्तिमेती' ति रुद्रशरीरकपरमात्मोपासनं साङ्गनुक्तम् । व्रतमेतत् पाशुपतमिति । पशुपतिरूपपरमात्मोपासनाङ्गतया पशुपतिसंबद्धं पाशुपतम् , न तु पाशुपतागमप्रतिपद्यम् , तद्धितद्वयकल्पकाभावात् । समन्त्र भसितस्पर्शनं तु प्रकरणगृहीतत्वान्न सर्वत्र प्राप्नोति दर्शपूर्णपासप्रकरणगृहीतप्रयाजवत् , सौत्रामणिप्रकरणगृहीतसुराग्रहवच्च । तस्मादथर्वशिरसि रुद्रान्तरात्मा नारायण एवं प्रतिपाद्यः, यथा प्रतर्दनविद्यायामिन्द्रान्तर्यामी। सर्वमिदं तदाचार्यपादैः श्रीवात्स्यवरदगुरुमिरेव विवेचितं तच्चसारे । " इति । ........ यथा m- यद् देवैरनुयुक्त उत्तरमुशन् रुद्रो विवृत्यात्मनि व्याजहे महतीमधीश्वरधुरामाथर्वणे मूर्धनि । स प्रादुर्भवदन्तरात्मभगवद्भूमाऽफणत् 'सोऽन्तरात् अन्तः प्राविश' दित्यधीतविधया तद् वामदेवादिवत् ॥ ८० ॥ 'नान्यः कश्चिन्मत्त' इत्युग्रवाक्यादूर्ध्वं नेतिस्तत्समाप्तिं ब्रवीति । प्राग्वत् पश्चादुग्रवाक्यानुवृत्तेः 'सोऽहं नित्योऽनित्य' इत्यादिभङ्ग्या ।। ८१ ।। सोऽतो हेतुं वक्ति, नेतिः प्रकारं प्रह्लादोक्तो हेतुरन्तःप्रवेशः । प्रह्लादोक्तिः 'सर्वगत्वादनन्तस्ये ति व्यक्ता वैष्णवाख्ये पुराणे ॥ ८२ ॥

  • एवं श्रुतिवाक्यपाठो महीशूरमुद्रणे द्रष्टव्यः ।

1. श्लोकानामर्थः दर्शिततात्पर्यदीपिकादौ अवधानं वहतां सुगम इति न तन्यते । 2. नान्यः कश्चिन्मत्तो व्यतिरिक्त इति ' इति नान्य' इति वाक्योपरि श्रूयमाण इतिः ने समाप्त्यर्थः, तावति रूद्रवाक्यसमाप्त्यभावात् , उपर्यपि सत्त्वादिति श्लोकार्थः । ,