पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१८९

एतत् पृष्ठम् परिष्कृतम् अस्ति

४ अथर्वशिरस्सारः . . 3 'अथवेतिपदेन हेतुरत्र व्यतिरेकोऽकथि नान्य इत्यधीतः । अहमेक इतीरितान्वयस्य प्रतिपत्तुं सुकरः प्रकारपक्षः ॥ ८३ ।। रुद्रस्योक्तिः सोऽन्तरादित्यतोऽसौ तस्मादन्यः कोऽपि तस्यान्तरात्मा । अन्येषाञ्चैत्युच्यते ‘सोन्तरादित्युक्त्या रौद्या सोऽपि विष्णुः प्रसिद्धः ।। ८४ ।। 'इत्युक्तिर्वा समाप्ति वदतु हरगिरः 'सोऽन्तरादित्यतोऽसौ मा मृदु रुद्रोक्तिरित्थंसति न विघटना किञ्चिदस्मन्मतस्य । रुद्रः स्वात्मात्मभूत हरिममलधिया स प्रविष्टश्चिकीर्षुः मेधावीव स्ववश्यं नरमपरमिति व्यज्यते वेदवाचा ।। ८५॥" द्वितीयखण्डं व्याख्याति-- "श्रुत्वा रुद्रवचस्तदीयमहिमस्तोत्राय लब्धोद्यामाः सर्वेश्वर्यमथर्वमूर्ध्नि यदपि व्याज ह्णिरेऽस्यामराः । तेऽन्तर्यामिसमाधिहेतव इह व्यक्ता हि रुद्रोक्तयः तद् युक्तास्तदनूक्तयस्तु दिविषद्राकास्तदेकाशयाः ।। ८६ ॥" तृतीयखण्डं व्याख्याति-

  • ओंकारपूर्वकतया प्रतिपादितानि नामान्तराणि ननु "रुद्रपुरस्सराणि ।

अथर्वणे शिरसि तानि तु न प्रसिद्धरुदेशितृत्वमुपादयितुं क्षमन्ते ॥ ८७ ॥ 1. इतिशब्दः पूर्ववाक्यार्थस्यैव हेतुत्वपरोऽपि सुवच इत्याह अथवेति । एतद्विवर' श्रुतप्रकाशिकास्थं पूर्वं दर्शितमेव । अथ इतिशब्दस्य प्रकारार्थकत्वमपि स्वीकरोति प्रतिपत्तुमिति 2. अस्तु वा इतिशब्द: समाप्त्यर्थक इत्यर्थः । समाप्त्यर्थकत्वेऽस्य सर्वरुदवाक्यान्योजनेति कश्चित् पक्षोऽस्ति । तमप्यस्वीकृत्य, एतदुत्तरवाक्यस्य रुद्रवाक्यत्वामावादेवात्र इतिशब्द इति स्वीकारेपि न दोष इत्यर्थः । १. यो वै रुद्रस्स भगवान् यश्च ब्रह्मा तस्मै वै नमोनमः । यो वै रुद्रस्स भगवान यश्च विष्णुस्तस्मै वै नमोनमः' इत्यादिवाक्यविषयमेतत् । 1. अत्र दर्शितः खण्ड विभागः अष्टोत्तरशतोपनिषत्कोशप्रसिद्धम् , एभिरेव तत्त्वसार कर्तृभिराचार्यैः कृतं तत्त्वनिर्णयग्रन्थच्चानुसृत्य । श्रुतप्रकाशिकायां पुनरन्यथा । अथर्वशिखायामिवात्रापि खण्डविभागे व्यवस्थाऽभावात् । 5. रुद्रादिनामान्यत्रोकानि प्रक्रमानुसारादोङ्कारस्यैव नामानीति भावः । 1 -