पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१९०

एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वशिरस्सारः २५ चतुर्थखण्डं व्याख्याति--- " समाख्याः प्रक्रान्तप्रणवविषयिण्यः प्रतिपदं निरुक्ता रुद्राद्या यदपि हि महादेव' शिरसि । श्रुतेराथर्वण्याः शिरसि तदिदं तारविभवं व्यनक्तयोंकारः स्यादुपरितनविद्यापरिकरः ।। ८८ ॥" पञ्चमखण्डं व्याख्याति- पन्था बन्धस्य शान्तेः पशुपतिभजनं नन्विहार्थवमूर्ध्नि प्रोक्तः प्राच्या तदुक्त्तया स्फुरति हरिरिहोपासनीयस्तदात्मा । यद्वन्मध्वादिविद्यास्वितःसुरतनुः ; स्रष्ट्रसृज्यादिभावः श्रौतस्त्वत्रापि तुल्यः श्रुतमिह भसितं प्रस्तुतोपास्तिशेषः ॥ ॥ ८९. ।। प्रस्तुत्य रुवपुषः पुरुषोत्तमस्य विद्यामथर्वशिरसीरितमङ्गमस्याः । भस्म, प्रसक्तिरितरत्र न चास्ति (स्य) यद्वत् सौत्रामणीप्रकरणस्थसुराग्रहस्य ।। ९०॥ आथर्वण्यां शिखायामगणि भगवतो या जनिः कारणैक- ध्येयत्वेदम्परायां जगदुपकृतये सोऽयमिच्छावतारः । यद् विष्णोः कारणैकपवणफणितिभिः कारणत्वोपदेशः स्पष्टो, दृष्टप्रयोगः सुख जनकतया शम्भुशब्दोऽपि तस्मिन् ॥ ९॥ उदितमुपासनद्वयमवशिरश्शिखायोः स्फुटमपुनर्भवाय पुरवैरिकलेबरिणः । 1. अन्ते महादेवनान्नः ओंकारनामतया पाठो महीशूरमुद्रणे द्रष्टव्यः । 2. व्रतमेतत् पाशुपतमित्यारभ्य-अग्निरित्यादि " भस्म गृहीत्वा विमृज्याङ्गानि संस्पृशन् इति वाक्यमिह भाव्यम् ।