पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१९१

एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वशिरस्सारः - कमलदृशः 'क्वचित् क्वचन कारणतत्त्वपरश्रुति- विहितस्य हार्दसुषिमध्यजुषो विदुषः ।। ९२ ॥" भगवद्भाष्यकारपरमाचार्यैः श्रीभगवद्यामुनमुनिभिरेव अथर्वशिरोऽथर्वशिखाश्वेताश्वतरादीनां निर्वाहः पुरुषनिर्णये प्रपञ्चित इति न्यायसिद्धाञ्जने श्रीमद्वेदान्तदेशिकैर्दर्शितम् । स तु पुरुषनिर्णयग्रन्थः संप्रति नोपलभ्यते । न्याय- सिद्धाञ्जनव्याख्यायां दशोपनिषद्भाष्यकारैरेव यद्यपि अथर्वशिरःप्रथमखण्डविचारो वर्तितः-अथापि स संग्रहरूप इति यथोपलम्भे प्राचीनपूर्वाचार्यव्याख्यानमेव संकलितम् । प्रतिपदव्याख्याविरहेऽपि सारो दर्शित एवेत्यलम् । ननु देवैः, 'के वयम् । इति वा, साक्षादेव 'कः परमात्मा ' इति वा प्रश्नमकृत्वा, को भवानिति प्रश्नः कुतः कृत इति चेत्-अत्रोक्तं श्रुतप्रकाशिकायाम्- 'देवतात्वेन साजात्ये ऽपि प्रभावातिशयदर्शनेन संदेहाद् देवा अपृच्छन् । इति । अयं भाव:-तत्त्ववेदिभिर्देवैः स्वयमुपेन्द्रकिकरैः कदाचित् वैष्णवधार्यवेषाद् विलक्षणं भस्मधारणादिरूपं रुद्रवेषं दृष्टवद्भिः, ' अमसाजात्यादनेनापि हि विष्णुकिङ्करेण भाव्यम् । तत् कथमस्यैव वेषः ? ' इति आश्चार्यमग्नैः, तथापि प्रभावातिशयदर्शनेन किमयं स्वतन्त्र इति मनाक् संदिहानैः पृष्टम् ‘को भवान् । इति । स चाऽऽशयवेदी प्रत्युवाच-अहमपि वैष्णव एव । जानाम्येव सर्वान्तरं परमात्मानम् । मयाऽनुष्ठोयमानश्चायं तदुपासनाविशेषः, यत्र मे वेषादिकमित्थमिति 1. क्वचित् कचनेत्यस्य तत्रतत्र श्रुत्यन्तरेविष्वत्यर्थं वर्णयन्ति । एषञ्च अत्र विदुषा स्वहृदयसुषिविवर्तिपुण्डरीकाक्षमूर्त्यनुसंधानमेव कार्यम् । तत्रेह रुद्रान्तर्यामित्वमपि परमात्मन्यनुसंधेयमिति भावो वक्तव्यः । वस्तुतस्तु प्रतर्दन विद्यायामिन्द्रेणेव अथर्वशिरसि रुद्रेण शास्त्रदृष्ट्या व्यवहारात् , देवेश्च तथैव स्तवनात् , (ओंकारे ईशानमहेश्वरमहादेवनामघटनात् ) रुद्रासाधारण- भस्मधारणस्य विद्याङ्गत्वश्रवणाच्च रुद्रान्तर्यामित्वमप्युपास्याकारोऽस्तु । अथाप्यथर्वशिखायां तत् कुतः ? ; तथाच क्वचिदिति अथर्वशिरसीत्यर्थकं पूर्वत्रान्वेति । क्वचनेति अथर्व शिखायामित्यर्थ कमुत्तरत्रान्वेति । तथाच शिखायां न रुद्रान्तर्यामित्वमुपास्याकारः । 'अत एव उपासनद्वय' मिति भेदः प्रदर्शितः । कारणतत्त्वपरश्रुति विहितस्येत्यनेन शिखायां 'कारण तु ध्येय' इत्यत्र न कारणत्वविधिः, किंतु श्रुत्यन्तरतः कारणत्वेन प्रसिद्धस्य ध्यान विधिरिति वेदार्थ संग्रहाद्युक्तमनूदितम् । तात्पर्यचन्द्रिकायामपि ( ८. १३. । अधर्वशिरःप्रस्तावमात्रे, 'अन्न प्रकरणादिवशात् प्रतर्दनविधावत् अन्तरितं शासनमनुसंधेयम्' इत्युक्तम् । .