पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१९२

एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वशिरस्सारः बोधयितुम् । ततस्ते तद् विज्ञाय तं तुष्टुवुः । तदेतत् तदीयमुपासनमथर्वशिरसि प्रतिपाद्यत इति । अयमर्थोऽस्माभिर्वेदान्तपुष्पाञ्जलौ प्रदर्शित एवेति ॥ ईशाद्युपनिषद्भाष्यपरिष्कारविधायिना इत्यथर्वेशिरःप्राच्यव्याख्यासंकलनं कृतम् ॥ श्रीमते भगवद्रामानुजाय नमः । श्रीलक्ष्मीहयवदनपरब्रह्मणे नमः | श्रीरस्तु. शुभमस्तु. अथर्वशिरसि पदवाक्यानुपूर्व्यामभ्यधिकाः विपर्यासा व्यक्तं लक्ष्यन्ते । उत्तरदेशीयदेवनागरीमुद्रणेषु महीशरपुरान्ध्रलिपिमुद्रणे च महद् वैषम्यम् । पूर्वत्र मुद्रणे अथर्वशिरसि अथर्वशिखोक्तप्रणवमात्राभेदतद्देवतावर्णादेरीषद्विशदं वर्णनमपि लक्ष्यते । उत्तरत्र न तत्प्रस्तावः । पूर्वत्र ओङ्कारनाम्नां बहूनां परिगणने रुदेशानभगवन्महेश्वरनाम्नां निर्देशः ; उत्तरत्र महादेवनामापि ओङ्कारनामतया अन्ते समगणि, निरवाचि च । स्थूलमिदं प्रदर्शनम् । आदितः आ अवसानात् सन्ति असंख्या भेदाः । तत्र अत्रोपाथ्ताः पूर्वाचार्यग्रन्थाः प्रायो महीशूरमुद्रणदृष्टामानुपूर्वमिवानुरुन्धत इति तत्रतत्रोद्धतवाक्यांशनिरीक्षणानिश्चीयते । श्रीवेंकटेशप्राच्यविद्याविमर्शालयकोशः प्रायो महीशूर मुद्रितसमान एव । अतो बहुविवादग्रस्तानुपूर्व्यतया, आनुपूर्व्या किञ्चिव्द्याख्यानस्यामदीयादृतस्य अलाभेन अथर्वशिरोमूलमुद्रणस्य पृथगकरिष्यमाणतया अत्रैवाथर्वशिखाप्रसङ्गादथर्वशिरसोऽपि प्रमेयसारः परमिह दर्शित इति ॥ 13