पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१९३

एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वशिखासारसङ्गहकारिकाः । अङ्गिरःपभृतिप्रश्ने प्राहाथर्वा चतुष्टयम् । ध्यानस्य करणं ध्यानं ध्याता ध्येय इति क्रमात््च ।। ओंकारः करणं ब्रह्म चतुष्पाचतुरक्षरम् । प्रत्यक्षरे लोकवेददेवच्छन्दोमिभावना ।। ब्रह्मा विष्णू रुद्र एवं पुरुषो देवताः क्रमात् । ह्रस्वदीर्घप्लुतात्मा स प्लुतरूपः प्रयुज्यताम् ।। नाना नामानि चान्वर्थान्येतस्येत्युक्तमादिमम् । अथ त्रीण्यत्र च ध्यानं विष्णुर्भाव्यं यतात्मना ।। ध्याता रुद्रतया भाव्यो ध्येयस्तु श्रूयतां परः । भूतेन्द्रियादिवद् ब्रह्मरुद्राद्यपि हि सूयते ॥ अतो यो मोक्षसुखदः समष्टेरपि कारणम् । स ध्येय ईश्वरो मान्य इत्यथर्वशिखाश्रुतिः ॥ पुरुषनामानि अङ्गिराः, सनत्कुमारः पैप्पलादः. अथर्वा. विषयाः अथर्वाणं प्रति ध्यानकरणादिपभः ७८ तदीयनानानामनिर्वचनम् ८२ मन्त्र-ध्यान ध्यातृ-ध्येय प्रकारनिरूपणम् ध्यानस्य विष्णुरूपत्वम् ओंकारनिरूपणप्रपञ्चः ७९ ध्यातरि रुद्रभावना अक्षरभेदेन देवतादिकथनम् ८० सर्वकारणभूतस्य परवस्तुनो ध्येयत्वम् ८६ ।। शुभमस्तु ।