पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१९४

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीः कौषीतकिब्राह्मणोपनिषत् । ['वाङमे मनसि इति शान्तिः] हरिः ओम् । चित्रो ह वै गार्ग्यायणिर्यक्ष्यमाण आरुणिं वव्रे ॥१॥ श्रीमते रामानुजाय नमः { येनोपनिषदां भाष्यं रामानुजमतानुगम् । रम्यं कृतं प्रपद्ये तं रङ्गरामानुजं मुनिम् ।। ] श्रीमद्रारामानुजमुनीन्द्रानुगृहीता कौषीतक्युपनिषत्प्रकाशिका अतसीगुच्छसच्छायमञ्चितोरस्थलं श्रिया। अञ्जनाचलशृङ्गारमञ्जलिर्मम गाहताम् ।। व्यासं लक्ष्मणयोगीन्द्रं प्रणम्यान्यान गुरुनपि । कौषीतकि(की)श्रुतिव्याख्या करवाणि यथामति ।। अचिंरादिगतितत्प्राप्यदेशविशेषतद्विशिष्टब्रह्मानुभवप्रकारोपदेशाय आख्यायिकेयमारभ्यते चित्रो ह-वव्रे। नाम्ना चित्रः गार्ग्य॑स्यापत्य गार्ग्यायणिः [चित्रनामा क्षत्रियः आरूणिं गौतमं याजनाय प्रार्थितवानित्यर्थः ॥ (१) ।। श्रीः श्रीमद्भपो रङ्गरामानुजमहादेशिकेभ्यो नमः कोषीतक्युपनिषद्भाष्यपरिष्कारः विद्वद्भिश्चन्द्रमाप्तैरपि विहितमखैः सेव्यपर्यङ्करूपः प्राणादौ वश्यभूते वशयितुमुचितश्चेन्द्रमुख्यान्तरात्मा । धाम खापादिकर्तुः कृतनिखिलजगद यो हि कौषीतकीष्टः श्रीमान् श्रीवेङ्कटाद्वीश्वर इह वितनोत्वञ्चसैष श्रियं नः ॥ कोषितकिब्राह्मणोपनिषदि चतुरथ्याभ्यां प्रथमेऽध्याये पर्यङ्कविद्या प्रस्तूयते । सेयं परमपदे पर्यङ्के समुपासीनस्य भगवतो वासुदेवस्य ध्यानरूपा | तामिमा प्रस्नोध्यता प्रथमतः चन्द्रं प्राप्तैरपि पूर्वानुष्ठितविद्यैः परमपदं सुखलभ्यमिति कयात्चिदाख्यायिकया प्रदर्श्यते । तत्र चित्रनामा क्षत्रियः स्वयं पर्यङ्कविद्यावित् मुमुक्षुर्यष्टुं प्रववृते । याजकस्तु ब्राह्मणः यागेनानेन अयं चन्द्रमण्डलं प्राप्य मोगान् अनुभूय पुनर्निवर्तिष्यते यथागलोकमित्येव मेने। यतः स न बिजली काम्यकर्मैकरतेभ्यो- ऽन्येभ्योऽस्य यष्टुर्विशेषम् । तदेव क्षत्रियः याजकस्य यथावस्थितबुद्धिपूर्वमनुापकत्वे सत्येय कर्मसादगुण्यं मन्वानः याजक्रमागतं रहस्यमर्थ पप्रच्छ । अथ चाविदुषे तद्रहस्यमुपदिदेशेत्युय्यते चित्र इत्यादिना । भक्त्या सक काम्यस्य, मुक्त्या भुक्तेश्च समाहरणादयमन्तवमा चित्रः)