पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१९५

एतत् पृष्ठम् परिष्कृतम् अस्ति

१०२ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता सर्वे गच्छन्ति ॥ ९॥ रोहावरोहौ । 'अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ' इति अनिष्टादिकारिणां यमवश्यतादर्शनात् । " स्मरन्ति च"। 'सर्वै चैते वशं यान्ति यमस्य भगवन् किल' इति यमवश्यतास्मरणात् । “ अपि सप्त" | पापकृतां गन्तव्यत्वेन रौरवादीन् सप्त नरकानपि स्मरन्ति । ननु सप्तषु लोकेषु गच्छतां कथं यमसदनप्राप्तिः । तत्राह-" तत्रापि तव्द्यापारादविरोधः " । तेष्वपि सप्तषु यमाज्ञयैव गमनादविरोधः अतः अनिष्टादिकारिणामपि यमलोकं प्राप्य स्वकर्मानुरूपं यातनाश्चानुभूय पश्चात् चन्द्रारोहावरोहौ स्तः । इति प्राप्ते उच्यते- “विद्याकर्मणोरिति तु प्रकृतत्वात् " | तुशब्दः शङ्कानिवृत्त्यर्थः । देवयानपितृयाणे हि फलभूते विद्याकर्मणोरित्यवसीयते । ' तय इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चित्रमभिसंभवन्ति,' अथ य इने ग्रामे इष्टापूर्ते दत्तमित्युपासते, ते धूममभिसंभवन्ति इति विद्याकर्मणी प्रकृत्य हि देवयानपितृयाणे आम्नायेते । अतो विद्याकर्मविधुरेष्वनिष्टादिकारिषु देवयान पितृयाणासंभवात् न चन्द्रप्राप्तिः । 'ये वै केचास्माल्लोकात् प्रयन्ती ' ति वचनम् इष्टादिकारिसर्वविषयं नेतव्यम् । संदिदेह । तत्र राज्ञा स्पष्टमुतरं दत्तम् , 'ये वै के चास्माल्लोकात् प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति' इति । इष्टापूर्तादिकारिणां मध्ये केचिद् गच्छन्ति, मादृशा न गच्छन्तीति न । सर्वेऽपीष्टादिकारिणो गच्छन्त्येवेत्यर्थः । अत्र पूर्व यागस्य प्रस्तुतत्वात् , तस्य लोकविशेषलाभार्थतायाः 'यस्मिन् लोके धास्यसी' त्यवमितत्वात् लोकार्थमिष्टादिकारिणो ये, त एव सर्वे इति पदेन प्रकरणवशाद गृह्यन्ते । न तु इष्टादिकारिव्यतिरिकानामप्यविशेषाद् ग्रहणम् । कतिपयेष्टादिकारिपुरुषाग्रहणशङ्कापरिहारार्थतया सर्वपदसार्थक्यात् | अर्चिरादिमार्गगामिनामिव अन्येषामपि इष्टादिकारिव्यतिरिकानां चन्द्रमण्डलारोहावरोहाभावाच्च । अयमर्थः अनिष्टादिकार्यधिकरणेऽपि निपृङ्कितः । तथाच श्रीभाष्यम् , " सर्वे गच्छन्तीत्येतदपि वचनम् , य इष्टादिकारिणः ते सर्वे इति परिणेयम्', इति । एवोहोपनिषद्भाष्ये, ये केचन इष्टापूर्तादिकारिणो विद्वांसश्च ते सर्वे चन्द्रमसं गच्छन्तीति बिदुषामपि सर्वपदेन ग्रहणेनार्थवर्णनम् , प्रकृतस्य यष्टुचित्रस्य विदुषोऽपि अविद्वदूपेष्टादिकारिण इव सर्वपदेन ग्रहणमस्तीत्याशयेनेति द्रष्टव्यम् । इष्टादिकारिभिन्नस्य विदुषोऽपि सर्वपदग्राह्यत्वे श्रीभाष्याभिमते तु 'विद्याकर्मणीरिति तु, प्रकृतत्वात् ' इति सूत्रस्य, विद्यायाः कर्मणश्च फलभूता चन्द्रलोकप्राप्ति: नानिष्टादिकारणो भवतीत्येवार्थो भाषितव्यः स्यदिति ध्येयम् ।